________________
३६०
सिद्धमलघुवृचौ । [ तृतीयाध्यायस्य
पुरुषः, अपरपुरुषः, प्रथमपुरुषः, चरमपुरुषः, जघन्यपुरुषः, समान• पुरुषः, मध्यपुरुषः, मध्यमपुरुषः, वीरपुरुषः ॥ श्रेण्यादि कृता
व्यर्थे ॥ १०४ ॥ श्रेण्याद्यकार्थं कृताद्यैः सह व्यर्थे गम्ये समासस्तत्पुरुषः कर्म्मधारयश्च स्यात् । श्रेणिकृताः, ऊककृताः । च्व्यर्थ इति किम् ? श्रेणयः कृताः केचित् ॥ क्तं नञादिभिन्नैः ॥ १०५ ॥ पूर्वनिपातस्य विषयप्रदर्शनार्थम्, अद्रव्यवाचिनोर नियमेन पूर्वापरभावप्रसक्तौ पूर्वनिपातनियमार्थं च वचनम् । नन्वेकश्वासौ वीरश्चेत्यत्र'पूर्वकालै के ' ति बाधित्वा परत्वादनेन समासे वीरैक इति स्यात्, कथमे कवीर इति चेत् मैवम्, बहुलाधिकारात् । बहुलाधिकारादेव च क्रियाशब्दैः पाचकादिभिरेषां न समासः । श्रेण्यादि कृतायैः च्वेरर्थस्तस्मिन् । एकेन शिल्पेन पण्येन वा ये जीवन्ति तेषां समूहः श्रेणिः, अ. णयः श्रेणयः कृताः श्रेणिकृताः विप्रत्ययाभावे विप्रत्ययार्थे च गम्येSनेन समासः । विप्रत्ययान्तस्य च ' गतिवन्यस्तत्पुरुष ' इति सूत्रेण नित्यसमासः श्रेणिकृताः । यदा पृथक् संस्थितानां श्रेणीकरणं तदाऽयं समासो यथा स्यात्, यदा तु श्रेणीस्थानामेव दण्डनादिरूपकरणं तदा मा भूदित्येवमर्थं च्व्यर्थे इत्युक्तम् । अनूका ऊकाः कृता ऊककृता राशिस्थानीकृता इत्यर्थः । श्रेणिकृता इत्यादौ क्रियाकारक सम्ब न्धमात्रम्, न विशेष्यविशेषणभावः । श्रेणयः कृताः, किश्चिन्निगृहींता अनुगृहीता वेत्यर्थः ॥ क्तं नव् आदिर्येषान्तानि, नञादि - भिर्भिन्नानि तैः ॥ नञादीत्यत्रादिशब्दः प्रकारार्थः । विसमाप्तिवचनोऽत्र नन्, विसमाप्तिश्चेषन्निष्पत्तिरीषद परिसमाप्तिर्वा । एवंविधैर्नमादिप्रकारैरेव भिन्नैर्नामभिरित्यस्य नन्प्रकारैरेवाधिकैरित्यर्थः, यथा कृतञ्च तद् अकृतञ्च कृताकृतम्, एकदेश करणात्कृत मे कदेशान्तरस्याकरणात्तदेवाकृतमित्यर्थः । इटः क्तावयवत्वाद् विकारस्य त्वेकदेशविकृताऽनन्यत्वान्न भेदकत्वम्, यथा क्लिष्टाकुिशितम् अशिताऽनशि