SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ प्रथमपादः ] अवचूरिपरिष्कारसहितायाम् । ३५५ सस्तत्पुरुषः कर्मधारश्च स्यात् । नीलोत्पलम् , खञ्जकुण्टः, कुण्टखञ्जः। एकार्थमिति किम् ! वृद्धस्योक्षा वृद्धोक्षा ॥ पूर्वकालैकसर्वजरत्पुराणनवकेवलम् ॥९७ ॥ पूर्वकालो यस्य तद्वाच्येकादीनि चैकार्थानि परेण नाम्ना समासस्तत्पुरुषः कर्मधारयश्च स्यात् । स्मातानुलिप्तः, तथात्वेऽपि प्रधानानुयाय्यप्रधानमिति न्यायादप्रधानस्यैव प्रधानेन समासात्, द्रव्यस्यैव साक्षास्क्रिययाऽभिसम्बन्धेन द्रव्यशब्दानां प्राधान्यात् । उपलादिशब्दा जातिवाचका अप्युत्पत्तेः प्रभृत्याविनाशं द्रव्येण जातेरभिसम्बन्धाद्रव्यशब्दा उच्यन्ते, गुणक्रिययोस्तु द्रव्येण तथासम्बन्धाभावान्न तन्निमित्ताः शब्दा द्रव्यशब्दाः, अतो नीलोत्पल. मित्यायेव भवति, न तूत्पलनीलमित्यादि । यत्र च गुणादिशब्दानामेव समासस्तत्रोभयोरपि पदयोरप्रधानत्वात्कामचारेण पूर्वापरनि. पातः, यथा खखश्चासौ कुण्टश्च खञ्जकुण्टः कुण्टखञ्जो वा । वृद्धस्योक्षा वृद्धोक्षेत्येकार्थप्रत्युदाहरणे भिन्नप्रवृत्तिनिमित्तयोः शब्दयोरेकस्मिन्निर्थे वृत्त्यभावेनैकार्थ्याभावान्न कर्मधारयः, किन्तु षष्ठी तत्पुरुषः। अत्र कर्मधारये हि समासान्तप्रत्ययः स्यात् । बहुलाधिकारात्कचिन्न समासः, यथा रामो जामदग्न्यः । क्वचिन्नित्यो यथा कृष्णसर्पो जातिविशेषवाचित्वात् , न हि वाक्येन जातिर्गम्यते । जातिशब्दानाश्चावयवद्वारेण समुदायेऽपि वृत्तेस्सामानाधिकरण्यम् , भूयोऽवयवाभिधायिनश्च प्राधान्याद्विशेष्यत्व मितरस्य तु विशेषणत्वम् ॥ पूर्व कालो यस्यार्थस्य पूर्वकालश्च एकश्च सर्वश्च जरञ्च पुराणश्च नवश्व केवलञ्च । एकार्थ कर्मधारयश्चानुवर्त्तते । अत्र पूर्वकालशब्दोऽर्थपरः, सम्बन्धिशब्दत्वात्परकालवाचकेन समस्यते, अन्ये षट् स्वरूपपरा न त्वर्थपराः । पूर्व स्नातः पश्चादनुलिप्त इति स्नातानुलिप्तः । एका चासौ शाटी चैकशाटी एकशब्दः सङ्ख्याऽन्यासहायाद्वितीयेषु वर्तते, एकशाटीत्यत्र स्वसहाये । सर्वं च तदन्नं च सर्वा
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy