________________
३५६
सिमलघुवृत्तौ
[ तृतीयाध्यायस्य
"
एकशाटी, सर्वान्नम्, जरद्गवः, पुराणकविः, नवोक्तिः, केवलज्ञानम् । एकार्थमित्येव ? स्नात्वाऽनुलिप्तः || दिगधिकं संज्ञातद्वितोत्तरपदे ।। ९८ ।। दिग्वाच्यधिकं चैकार्थं नाम्ना समासस्तत्पुरुषः कर्मधारयश्च स्यात्, संज्ञायां तद्धिते च विषयभूते उत्तरपदे च परतः । दक्षिणकोशलाः, पूर्वेषुकामशमी, दाक्षिणशालः । अधिकषाष्टिकः, उत्तरगवधनः, अधिकगवप्रियः ॥ सङ्ख्या समाहारे च द्विगुसर्वशब्दो द्रव्यावयवप्रकारगुणानां कात्स्न्यें वर्तते, सम्बन्नमित्यत्र तु प्रकारस्य यावत्त्वे । जरंश्चासौ गौश्च जरद्गवः । पुराणश्वासौ कविश्व | नवा चासावुक्तिश्च नवोक्तिः । केवलञ्च तज्ज्ञानञ्च । स्नात्वानुलिप्त इति स्नात्वेत्यस स्ववाचित्वान्नानुलिप्त पदेनैकार्थ्यम्, पूर्वेणैव सिद्धे पुनर्वचनं स्पर्धे परमिति पूर्वनिपातस्य विषय प्रदर्शनार्थम् । पूर्वापर कालवाचिनोरद्रव्यशब्दत्वादनियमे प्राप्ते पूर्वकालवाचिन एव पूर्वनिपातार्थञ्च । दिक् च अधिकश्च संज्ञा च तद्धितश्च उत्तरपदा तस्मिन् ॥ अनुवृत्तिः पूर्ववत्, एवमग्रेऽपि । दक्षिणाश्च ते कोशलाश्च दक्षिणकोशलाः, अयोध्येत्यर्थः । पूर्वां चासाविषुकामशमी च पूर्वेषुकामशमी, इषुकामशमीति ग्रामसंज्ञा । संज्ञायां नित्यसमासः । पूर्वोत्तर विभागप्रदर्शनार्थन्तु विग्रहवाक्यम् । दक्षिणस्यां शालायां भवो दाक्षिणशाल:, 'दिक्पूर्वादनान्न' णप्रत्ययः । अधिकया षष्ठ्या क्रीतोऽधिकषाष्टिकः, 'मूल्यैः क्रीते' इकणू, अयमपि नित्यसमासः, न हि तद्धिते वाक्यमस्ति । उत्तरो गौर्धनमस्येत्युत्तर गवधनः, 'गोस्तत्पुरुषादि ' त्यट्प्रत्ययः, उत्तरपदे च परत इत्यस्योदाहरणम्, अयमपि नित्यसमासः, त्रयाणामेकार्थीभाव एवोत्तरपदसम्भवात्, तत्र च द्वयोर्व्यपेक्षाभावात् । अधिका गौः प्रिया यस्याधिकगवप्रियः । विशेषणं विशेष्येणेत्येव सिद्धे नियमार्थं वचनम् । दिगधिकं संज्ञातद्धितोत्तरपद एव समस्यते, नान्यत्रेति || संख्या समाहरणं समाहारः तस्मिन् च, द्विगु:, च,
"