SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ ३५४ सिद्धहेमलघुवृचौ [ तृतीयाध्यायस्य " मासदेयम् । कृदिति किम् ! मासे पित्र्यम् || विशेषणं विशेष्येणैकार्थं कर्मधारयश्च ॥ ९६ ॥ भिन्नप्रवृत्तिनिमित्तयोः शब्दयोरेकस्मिन्नर्थे वृत्तिरैकार्थ्यं तद्विशेषणवाचि विशेष्यवाचिनैकार्थ्ये समापित्र्यमिति तद्धितयान्तः । विशिष्यतेऽनेनेति विशेषणं व्यावर्त्तकमित्यर्थः । विशिष्यते तदिति विशेष्यम्, तेन, एकोऽर्थो यस्य तदेकार्थं कर्म्मधारयः, चकारेण तत्पुरुषस्य समुच्चयः । विशिष्यतेऽनेकप्रकारं वस्तु प्रकारान्तरेभ्यो व्यवच्छिद्यतेऽनेनेति विशेषणम्, व्यवच्छेद्यं विशेष्यम् । नीलञ्च तदुत्पलञ्च नीलोत्पलम् अत्र वाक्ये चकार प्रयोगेण प्रवृत्तिनिमित्त उत्पलत्वनी लत्वयोनीलोत्पलयोर्वा साहित्यं भासते । नीलोत्पलत्वसमूहवनीलमुत्पलमिति बोधः । नीलसमानाधिकरणं तदभिन्नमुत्पलमिति वा । विशेषणविशेष्ययोः सम्बन्धिशब्दत्वादेकतरोपादाने नैवान्यतरस्यापि लाभ उभयोर्ग्रहणं समस्यमानपदद्वयजन्यबोधप्रकारकयोर्विशेषणविशेष्य धर्मयोर्यत्र परस्परव्यभिचारस्तत्रैव समासो यथा स्यान्नान्यत्रेत्येतदर्थम् । तेन तक्षकः सर्प इत्यादेर्न समासः, उभयधर्मयोः परस्परव्यभिचाराभावात्, न हि तक्षकत्वं सर्पत्वं व्यभिचरति । न चाऽऽम्रवृक्षोऽस्तपर्वत इत्यादौ कथं समासः, न ह्यर्वृक्ष आम्रो भवतीति वाच्यम्, आम्रादीनां फलादौ तत्सहचरितमाधुर्यस्थैर्यादिगुणविशेषे च वृत्तेः, तत आम्रफलादिव्यवच्छेदकत्वेन वृक्षशब्दस्यापि विशेष्यत्वात्समासो भवत्येव । एवं तक्षकाहिः शेपाहिरित्यादयोऽपि भवन्ति, तक्षकशेषादिशब्दानामहिगुणादावपि वृत्तेरहिशब्दस्य गुणादिव्यावर्त्तकत्वात् । तक्षकः सर्प इत्यादौ तु तक्षकशब्देन तद्गुणविवक्षायामपि बाहुलकान्न भवति । अथवाऽऽम्राणां वृक्षोऽस्तस्य पर्वत इत्येवं षष्ठीसमासो विधेयः । न च विशेष्यविशेषणभावस्य कामचारत्व उत्पलस्यापि विशेषणत्वेन प्रथमोकं प्रागिति वचनादुत्पलनीलमित्यपि स्यादिति वाच्यम्,
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy