SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ प्रथमपादः ] अवरिपरिकारसहितायाम् । ३५३ रुषः स्यात् । तत्रकृतम्, पूर्वाकृतम् , पूर्वरात्रकृतम् । तत्राहोरात्रांशमिति किम् ? घटे कृतम् । अहोरात्रग्रहणं किम् ? शुक्लपक्षे कृतम् । अंशमिति किम् ? अह्नि भुक्तं, रात्रौ नृत्तम् ।। नाम्नि ॥ ९४ ॥ सप्तम्यन्तं नाम्ना संज्ञाविषये समासस्तत्पुरुषश्च स्यात् । अरण्येतिलकाः, अरण्येमाषकाः ॥ कृयेनावश्यके ॥ ९५ ॥ सप्तम्यन्तं नाम “य एच्चात" इति यान्तेनावश्यम्भावे गम्ये समासस्तत्पुरुषश्च स्यात् । भक्तो 'अव्ययस्येति लुप् । न चाभिहितत्वात् तत्रेति सप्तमी दुर्लभेति वाच्यम् , विभत्यन्तरेऽपि तत्र भवानित्यादौ तत्रशब्ददर्शनादधिकरणप्रतिपादनेऽपि सप्तम्या अपेक्षितत्वात् । सप्तम्यधिकाराऽबा. धायामधिकरणशक्तिप्रधानादपि सप्तम्या युक्तत्वाच्च । तत्र कृतं तत्रकृतम्। पूर्वाह्ने प्रथमप्रहरे कृतम् पूर्वाह्नकृतम् । पूर्वं रात्रेः पूर्वरात्रं कृतं पूर्वरात्रकृतम् ॥ नाम्नि । अरण्ये माषका अरण्येमाषकाः · कोण्वादेरि'ति कः। अद्यञ्जनादि'त्यलुप् । संज्ञाविशेषोऽयम् , अत एव नित्य समासो वाक्यात् संज्ञानवगमात् ॥ कृतः यः कृद्यस्तेन, आवश्यके । 'अर्थवद्हणे नानर्थकस्य ग्रहणमिति न्यायेन तव्यादिव्युदासात् फलि. तमाह-'य एचात' इत्यादि । मासे अवश्यं देयं मासदेयम् मासस्य पूरके त्रिंशत्तमे दिने देयमित्यर्थः । अत्र मासे गते देयमिति विव. क्षायां 'यद्भावो भावलक्षणमिति सप्तमी । यदि मासाद्येक देशे मासादिशब्दस्तदाऽऽधार एव सप्तमी अन्यथोपचारं विना समग्रेऽपि मासे देयमिति यदि विवक्ष्यते तदा 'कालाध्वनोाप्ताविति द्वितीया स्यात् । अयमपि नित्यसमासः । यतो न समासेऽवश्यंशब्दस्याप्रयोग इति । अत्र 'तत्पुरुषे कृती' त्यलुप्प्राप्तौ बाहुलकात् सप्तम्या लोपः । पाणिनीये तु लोपो नेष्यते । मासे स्तुत्य इत्यादौ न समासः 'निरनुबन्धग्रहणे न सानुबन्धकस्येति न्यायेन क्यन्ध्यणोरग्रहणात् ।
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy