SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ ३५२ सिद्धहेमलघुवृत्तौ तृतीयाध्यायस्य गम्यमानायां समासस्तत्पुरुषः स्यात् । तीर्थकाकः, तीर्थश्वा । क्षेप इति किम् ! तीर्थे काकोऽस्ति ॥ पात्रेसमितेत्यादयः ॥ ९१ ॥ एते सप्तमीतत्पुरुषाः क्षेपे निपात्यन्ते । पात्रेसमिताः, गेहेशूरः ।। क्तेन ॥ ९२ ॥ सप्तम्यन्तं तान्तेन क्षेपे समासस्तत्पुरुषश्च स्यात् । भस्मनिहतं, अवतप्तेनकुलस्थितम् । तत्राहोरात्रांशम् ।।९३ ।। तत्रेति सप्तम्यन्तं अहरवयवा राव्यवयवाश्च सप्तम्यन्ताः कान्तेन समासस्तत्पु. काकादिस्तीर्थफलम जानन्नचिरस्थायी भवति, एवं यो देवदत्तादिः कार्याण्यारभ्य तेष्वनिर्वाहकः स तीर्थाधारेण काकादिनोपमीयमानः क्षिप्यत इत्यस्ति क्षेपंस्य गम्यमानता । नित्यसमासोऽयम् । पात्रे समित इत्यादिर्येषान्ते ॥ क्षेप इति सम्बध्यते । पात्र एव समिताः पात्रेसमिताः, य आवश्यककार्थमपि बहिर्न निर्गच्छति, भोजन एव च संरभते स एवमुच्यते, अनावधारणेन निरुत्साहता, तया च क्षेपो गम्यते । भोजनसमय एव सङ्गता न तु कार्य इत्यपि निन्दा गम्यते । इतिशब्दः समासान्तर एषामघटकत्वबोधकस्तेन परमाः पात्रेसमिता इत्यादिषु समासो न भवति । निपातनात्सप्तम्या अलुप् । बहुवचन. माकृतिगणार्थम् । नित्यसमासोऽयम् ।। क्तेन ॥ क्षेप इत्यभिसम्बध्यते । भस्मनि हुतमिव भस्मनिहुतम् , अवतप्ते नकुलस्थितमिवावतप्तेनकुलस्थितम् , क्तान्तेन गतिकारकपूर्वस्यापि ग्रहणम् , अत एव नकुलस्थितशब्देन सह समासोपपत्तिः । 'तत्पुरुषे कृती' त्यलुप् समासः । यथा तप्ते प्रदेशे नकुला न चिरमवतिष्ठन्त, एवं कार्याण्यारभ्य यश्चापलेन न चिरं तिष्ठति स एवमुच्यते, अव्यवस्थितत्वप्रतिपत्त्याऽत्र निन्दा । नित्यसमासोऽयम् ।। तत्र अहश्च रात्रिश्च अहोरात्रम् , अहोरात्रस्यांशाः, तत्र च अहोरात्रांशाश्च तत्राहोरात्रांशम् ॥ क्तेने ति वर्तते । पृथग्योगात्क्षेप इति निवृत्तम् । सप्तमीसाधर्म्यात् त्रप्रत्ययोऽप्यत्र सप्तमीत्युच्यते, साधर्म्यञ्चाऽधिकरणार्थत्वेन, अथवाऽव्ययस्यापि नामत्वात्ततो डिवि.
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy