SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ प्रथमपारः ] अधरिपरिकारसहितायाम् । ३५१ अस्वस्थगुणैरिति किम् । घटवर्णः, चन्दनगन्धः ॥ सप्तमी शौण्डाद्यैः ॥ ८८ ॥ एभिः सहै कार्य सप्तम्यन्तं समासस्तत्पुरुषः स्यात् । पान. शौण्डः, अक्षधूतः ॥ सिंहाथैः पूजायाम् ।। ८९ ।। एभिः सप्तभ्यन्तं समासस्तत्पुरुषः स्यात् , पूजायां गम्यमानायाम् । समरसिंहः, भूमिवासवः ॥ काकाद्यैः क्षेपे ।।९०॥ एभिः सप्तम्यन्तं निन्दायां दिशब्दैहिँ धर्ममात्रमेवाभिधीयते, एवञ्च गुणशब्देन केवलगुणवाची सन गुणोपसर्जनद्रव्यवाची गुणिबोधकप्रकृतिकभावप्रत्ययान्तश्च गृह्यते, न तु जातिसमयाव्ययकृदन्ततद्धितान्तसमाससर्वनामःसङ्ख्याशब्दाऽतिरिक्ताः । घटवर्णश्चन्दनगन्ध इति वर्णत्वादिना प्रतीयमाना वर्णादयो न कदापि गुणिसमानाधिकरणाः, किन्तु स्वस्था एवेति नात्र निषेधः ॥ सप्तमी, शौण्डाधानि तैः ॥ पाने शौण्डः पानशौण्डः, मद्यपे वर्तमानोऽपि शौण्डशब्दो गौणवृत्त्याऽत्र व्यसनिनि वर्तते । केचित्तु शौण्डः प्रवीण इत्याहुः । ननु कारकाणां क्रिययैवाऽन्वया. स्पानेषु शौण्ड इत्यादौ क्रियाया अश्रवणात् सप्तम्यर्थः कान्वेतु ? उच्यते, वृत्तौ प्रसक्तिरूपक्रियाया अन्तर्भावात्तद्वारा सामर्थ्यात् पानेषु प्रसक्तः शौण्डः पानशौण्ड इति समासात् । वृत्तौ प्रसक्तिक्रियाया अन्तर्भावादप्रयोगः । परे त्वधिकरणकारकस्य कर्तृकर्मद्वारा क्रिया. न्वयाच्छौण्डादिभिः सामर्थ्य न तु प्रसक्त्यादिक्रियान्तर्भावेनेति वदन्ति । बहुवचनमाकृतिगणार्थम् , तेन शिरःशेखर आपातरमणीय इत्यादि सिद्धम् ॥ सिंहाथैः, पूजायाम् ।। सप्तमीत्यनुवर्तते, एवमप्रेऽपि । समरे सन्नामे सिंह इव समरसिंहः । उपमयाऽत्र पूजाऽवगम्यते । समरे सिंह इव शूर इत्यादौ तु न समासः, यत्र साधारणधर्मवाच. कशन्दस्याप्रयोगस्तत्रैव समासः, अत्र तु शूरशब्दस्य साधारणधर्मवाचकस्योपादानान्न समासः । बहुवचनमाकृतिगणार्थम् ।। काकाद्यैः, क्षेपे । तीर्थे काक इव तीर्थकाकः, उपमयाऽत्र क्षेपो गम्यते । यथा
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy