________________
सिद्धहेमलघुवृत्तौ . [ तृतीयाध्यायस्थ रामस्य द्विषन् , चैत्रस्य पचन्, मैत्रस्य पचमानः ॥ ज्ञानेच्छाऽर्चार्थाऽऽधारक्तेन ॥ ८६ ।। ज्ञानेच्छार्थेिभ्यो यो वर्तमाने तो यश्चाद्यर्थाचाधार इत्याधारे क्तस्तदन्तेन षष्ठ्यन्तं न समस्यते । राज्ञां ज्ञातः, राज्ञामिष्टः, राज्ञां पूजितः, इदमेषां यातम् । अस्वस्थगुणैः ॥८७॥ ये गुणाः स्वात्मन्येव तिष्ठन्ति न द्रव्ये, ते स्वस्थास्तत्प्रतिषेधेनास्वस्थगुणवाचिभिः षष्ठ्यन्तं न समस्यते । पटस्य शुक्लः, गुडस्य मधुरः। 'कर्मणि कृतः' 'कर्तरि चेति सूत्राभ्यां विधीयमानषष्ठया एव, 'अनन्तरस्यैव विधिनिषेधो वेति न्यायात् । मैत्रस्य पचमान आनश्. प्रत्ययः, शैषिकी षष्ठी ॥ ज्ञानश्च इच्छा च अर्चा च, ज्ञानेच्छार्चा अर्थों येषान्ते, ज्ञानेच्छार्चार्थाश्च आधारश्च, तेषां क्तस्तेन ॥ राज्ञां ज्ञातः, 'ज्ञानेच्छा र्थनीच्छील्यादिभ्यः क' इति वर्तमाने क्तप्रत्ययः, कर्तरि षष्ठी । एवमरे । इदमेषां यातमित्यादौ ‘अद्यर्थाच्चाधार' इति क्तः । राजपूजित इत्यादौ तु बहुलाधिकारात्, भूतक्तान्तेन वा तृतीयासमासः । निषेधोऽयं कारकषष्ठीशेषषष्ठयोरुभयो. रपि, केचित्तु कारकषष्ठया एवेति वदन्ति ॥ स्वस्मिन् तिष्ठन्तीति स्वस्थाः, न स्वस्था अस्वस्थाः, अस्वस्थाश्च ते गुणाश्च तैः ॥ नेति वर्तते । पटस्य शुक्लो, गुडस्य मधुरः, अत्रार्थात्प्रकरणाद्वाऽपेक्ष्यस्य वर्णादेर्निीने य इमे शुक्लादयस्ते पटादेरिति सामोपपत्तेः समासः प्राप्नोतीति प्रतिषिध्यते । तथा पटस्य शौक्लयं गुडस्य माधुर्यमित्यादिषु पूर्वोदाहरणेषु च शुक्लादेर्गुणस्य शुक्लः पट इत्यादौ द्रव्येऽपि वृत्तिदर्शनादस्वास्थ्यमस्त्येव, गुणशब्देन चेह लोकप्रसिद्धा रूपरसगन्धस्पर्शगुणा अभिप्रेताः, ततस्तद्विशेषेरेवायं प्रतिषेधस्तेन यत्नस्य गौरवं यत्नगौरवं प्रक्रियालाघवमित्यादिषु प्रतिषेधो न भवति । न च गुणस्य द्रव्याश्रितत्वस्वरूपत्वात् स्वात्मन्येवावस्थानं कथमिति वाच्यम्, अभिधाव्यापारापेक्षया स्वस्थताया उक्तत्वात्, शौक्लया.