________________
प्रथमपादः ]
अवचूरिपरिष्कारसहितायाम् ।
३४९
"
॥ ८२ ॥ कर्तरि या षष्ठी तदन्तमकान्तेन समासो न स्यात् । तव शायिका । कर्त्तरीति किम् ? इक्षुभक्षिका ॥ कर्मजा तृचा च ॥ ८३ ॥ कर्मणि या षष्ठी तदन्तं कर्तृविहिताकान्तेन तृजन्तेन च न समासः स्यात् । भक्तस्य भोजकः, अपां स्रष्टा । कर्मजेति किम् ? गुणो गुणिविशेषकः, सम्बन्धेऽत्र षष्ठी । कर्त्तरीत्येव ? पयः पायिका ॥ तृतीयायाम् ॥ ८४ ॥ कर्त्तरि तृतीयायां सत्यां कर्म्मजा षष्ठी न समस्यते | आश्चर्यो गवां दोहोऽगोपालेन । तृतीयायामिति किम् ? शब्दानुशासनं गुरोः ॥ तृप्तार्थपूरणाव्ययातृशत्रानशा ॥ ८५ ॥ तृप्तार्थैः पूरणप्रत्ययान्तैरव्ययैरतृशन्तैः शत्रन्तैरानशन्तैश्व षष्ठ्यन्तं न समस्यते । फलानां तृप्तः, तीर्थकृतां षोडश, राज्ञः साक्षात्, । शयितुं पर्याय: शायिका । ' पर्यायार्हे 'ति णकप्रत्ययः, 'कर्त्तरी 'ति षष्ठी । इक्षूणां भक्षिका कर्म्मणि षष्ठी, कृतीत्यनेन समासः ॥ कर्म्मणि जाता कर्मजा, तृचा तृतीया च ॥ अकेन, न कर्त्तरीत्यनुवर्तते । कर्त्तरीति चाकस्य विशेषणम् । भक्तस्य भोजकः कर्मणि षष्ठी, अपां स्रष्टा कर्मणि षष्ठी तृविषय उदाहरणम् । गुणिविशेषको गुणिनः सम्बन्धि विशेषक इत्यर्थः, शेषषष्ठ्या समासः । पयसां पायिका पयःपायिका, अत्र कृतीत्यनेन समासः ॥ तृतीयायाम् || कर्त्तरि कर्मजा नेत्यनुवर्त्तन्ते । गवां दोह इत्यत्र 'द्विहेतोरस्त्रयणकस्य वेति षष्ठी, गुरोरिति कर्तृषष्ठयन्तयोगः, न तु कर्तृतृतीयान्तस्य, अतः शब्दानुशासनमित्यत्र कर्मजा षष्ठी समस्यते ॥ तृप्तो अर्थों येषान्ते, तृप्तार्थाश्च पूरणश्च अव्ययानि च अतृश्च शता च आनश्च तेन ॥ पूरणशब्देनातृशादिना च तदन्तत्वं प्राह्यम् । नेति वर्तते । तृप्त इति 'ज्ञानेच्छे' ति कर्मणि क्तः । षोडशानां पूरणः षोडश । द्वेष्टीति द्विषन्, 'सुद्विषाई' अतृप्रत्ययः, 'द्विषो वाऽतृश' इति वा षष्ठी । चैत्रस्य पचन् शतृप्रत्ययः, तद्योगे शेषे षष्ठी, 'तृन्नुदन्नेति षष्ठीनिषेधस्तु
1
,