SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ ३४६ सिद्धहेमलघुवृत्तौ । तृतीयाध्यायस्य पेया नदी, बाप्पच्छेद्यानि तृणानि । कारकमिति किम् ! विद्ययोषितः ।। न विंशत्यादिनैकोऽचान्तः॥६९ ॥ एकशब्दस्तृतीयान्तो न विंशत्यादिना समासस्तत्पुरुषः स्यात् , एकस्य चादन्तः । एकान्न. विंशतिः, एकाद् न विंशतिः, एकानत्रिंशत् , एकाद् न त्रिंशत् ॥ चतुर्थी प्रकृत्या ॥ ७० ॥ प्रकृतिः परिणामिकारणम् । एतद्वाचि. नैकार्थे चतुर्थ्यन्तं विकारार्थ समासस्तत्पुरुषः स्यात् । यूपदारु । प्रकृत्येति किम् ! रन्धनाय स्थाली ॥ हितादिभिः ॥ ७१ ॥ चतु. र्थ्यन्तं हितायैः समासस्तत्पुरुषः स्यात् । गोहितम् , गोसुखम् ॥ तदर्थार्थेन ।। ७२ ॥ चतुर्थ्यर्थो यस्य तेनार्थेन चतुर्थ्यन्तं समास. स्तत्पुरुषः स्यात् । पित्र) पयः, आतुरार्था यवागूः । तदर्थार्थनेति त्यर्थकेन परिभाषासूत्रेण गतिपूर्वेणाऽपि कृताऽनेन समासः । बहुला. धिकारास्तुतिनिन्दार्थतायां प्रायेण कृत्यैः समासः, यथा, काकैः पातुं शक्येति काकपेया, पूर्णतोयत्वाचटस्थैः काकैरपि पातुं शक्येति स्तुतिः, अल्पपारभ्भत्वेन' निन्दा वाऽत्र कर्तृतृतीयायाः कृत्येन समासः । बाप्पेण छेद्यानि बाष्पच्छेद्यानि, करणे तृतीया कृत्येन समस्यते । कोमलत्वेन दुर्बलत्वेन च स्तुतिनिन्दे । विद्ययोषित इति हेतौ तृतीया ॥ न, विंशतिरादिर्यस्यासौ तेन, एकः, अच्चान्तः ॥ एकेन न विंशतिरेकानविंशतिः, अनेनैव सूत्रेण निर्देशात् नअदिति न प्रवर्तते, एक. शब्दस्य चाऽदन्तो भवति, 'धुटस्तृतीयः' पक्षे 'तृतीयस्य पञ्चमे' एकानविंशतिः ॥ चतुर्थी प्रकृत्या ॥ यूपाय दारु यूपदारु, यूपो विकृतिः, दारु प्रकृतिः, चतुर्थी च तादय द्योतयति । रन्धनाय स्थाली, नाऽत्र प्रकृतिविकृतिभावः ।। हितादिभिः ॥ चतुर्थीत्यनुवर्तते । गोभ्य हितं गोहितम् , 'हितसुखाभ्यामिति चतुर्थी । आकृतिगणोऽयम् , तेनाऽऽत्मनेपदं परस्मैपदमित्यादि सिद्धम् ॥ तस्याश्चतुर्ध्या अर्थो यस्य सः, तदर्थश्वासावर्थश्च, तेन ॥ चतुर्थीत्यनुवर्तते । पित्रे इदं
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy