________________
प्रथमपादः ] अवरिपरिष्कारसहितायाम् । ३४५ रिति किम् ? अक्षणा काणः । गुणवचनैरित्येव ? दध्ना पटुः, पाटवमित्यर्थः ॥ चतस्रार्द्धम् ॥ ६६ ॥ अर्द्धस्तृतीयान्तस्तत्कृतार्थेन चतसृशब्देन समासस्तत्पुरुषः स्यात् । अर्द्धचतस्रो मात्राः । चतस्रति किम् ? अर्द्धन चत्वारो द्रोणाः ॥ ऊनार्थपूर्वाधैः ।। ६७ ॥ तृतीयान्तं ऊनाथैः पूर्वाद्यैश्च समासस्तत्पुरुषः स्यात् । माषोनं माषविकलम् । मासपूर्वः, मासावरः ॥ कारकं कृता ॥ ६८ ॥ कारकवाचितृतीयान्तं कृदन्तेन समासस्तत्पुरुषः स्यात् । आत्मकृतम्, नखनिर्भिन्नः, काकतथा च तृतीयान्तार्थकृतो यो गुणस्तद्वचनैरिति फलितार्थः । शङ्कुलया कृतः खण्डः शङ्कुलाखण्डः । कृतार्थो वृत्तावन्तर्भूत इति कृतशब्दो न प्रयुज्यते । खण्डशब्दः क्रियारूपापन्ने गुणे वर्तित्वा पश्चान्मत्वर्थलक्षणया तद्वति द्रव्ये वर्तत इति गुणवचनः । शकुलायाः स्वण्डेन सह सामर्थ्याभावात् कृतशब्दमन्तर्भाव्य समासः । अक्ष्णा काणः, काणत्वं नाक्षिकृतं किन्तु काण्डादिकृतम् , अक्ष्यादिना तु सम्बन्धमात्र 'यद्भेदैस्तद्वदाख्ये'ति तृतीया। दन्ना पटुः, न ह्यत्र पटुशब्दः पूर्व गुणमुक्त्वा साम्प्रतं द्रव्ये वर्तते, अतो न गुणवचनः । अत एव शुद्धगुणवाचिनापि न समासः, यथा घृतेन पाटवमित्यादि ॥ चतस्रा तृतीया, अर्द्धम् ॥ पूर्वसूत्रमनुवर्तते । अर्द्धन कृताश्चतस्रोऽर्द्ध चतस्रो मात्राः ॥ ऊनोऽर्थो येषाम् , पूर्व आद्यो येषाम् , ऊनार्थानि च पूर्वाद्यानि च तैः ॥ तृतीयेत्यनुवर्तते । माषेन ऊनं माषोनम् , मासेन पूर्वो मासपूर्वः । पूर्वादिभावे मासादेहेतुत्वाद्धेतौ तृतीया ॥ कारक कृता । तृतीयेत्यनुवर्तते । कारकवाचिपदेनासामर्थ्यात् कर्तृकरणरूपं ग्राह्यम् । आत्मना कृतमात्मकृतम् , कर्तरि तृतीया कृदन्तेन । नखैनिर्भिन्नो नखनिर्भिन्नः, 'कृत्सगतिकारकस्यापी'ति कृत् प्रत्ययः प्रकृत्यादेः समुदायस्य गतिकारकपूर्वस्य केवलस्यापि विशेषणं भवती.
४४