________________
यस्य
३४४
सिखहेमलघुवृत्ती [तृतीयाध्यायस्य द्वितीयान्तं श्रितादिभिः समासस्तत्पुरुषः स्यात् । धर्मश्रितः शिवगतः । प्राप्ताऽऽपन्नौ तयाच ॥ ६३ ॥ एतौ प्रथमान्तौ द्वितीयान्तेन समासस्तत्पुरुषः स्याताम् , तद्योगे चानयोरत् स्यात् । प्राप्तजीविका, आपन्नजीविका ॥ ईषद्गुणवचनैः ।। ६४ ॥ ईषदव्ययं गुणवचनैः समासस्तत्पुरुषः स्यात् । ये गुणे वर्तित्वा, तद्योगाद्गुणिनि वर्तन्ते, ते गुणवचनाः । ईषत्पिङ्गलः, ईषद्रक्तः । गुणवचनैरिति किम् ? ईषद्गा
र्यः ॥ तृतीया तत्कृतैः ।। ६५ ॥ तृतीयान्तं तदर्थकृतैर्गुणवचनैरेकार्थे समासस्तत्पुरुषः स्यात् । शङ्कुलाखण्डः, मदपटुः । तत्कृतैऽनेनेति बहुव्रीहिणैव धर्मश्रित इत्यादीनि सिद्ध्यन्ति, तथाऽपि समानार्थे केवलं विपहभेदाद् यत्र तत्पुरुषः प्राप्नोति बहुव्रीहिश्च तत्र तत्पुरुष एव भवतीति ज्ञापयति । तेन राज्ञः सखा राजसख इत्यादौ न बहुव्रीहिः । बहुवचनमाकृतिगणार्थम् । तेन तत्त्वबुभुत्सुः सुखेच्छुरित्यादि सिद्धम् ॥ प्राप्तश्च, आपन्नश्व, तया तृतीया, अत्, च । तच्छब्देन द्वितीयायाः परामर्शः । प्राप्ता जीविकां प्राप्तजीविका । 'नामग्रहणे लिङ्गविशिष्टस्यापि ग्रहणमिति न्यायात्प्राप्त्यावन्तेन समासः । रुयेकार्थोत्तरपदाभावात् 'परतः स्त्री'ति पुंवद्भावाऽप्राप्तेरनयोरद्विधानम् । प्राप्ताऽऽपन्नयोः प्रथमोक्तत्वात्पूर्वनिपातः । श्रितादि. त्वाच्चानयोः शब्दयोः पूर्वसूत्रेण समासे यद्वितीयान्तं नाम तस्यापि प्रथमोक्तत्वेन प्राग्निपातः, जीविकाप्राप्तो जीविकापन्न इत्यपि भवति ।। ईषत, गुणा उच्यन्ते यैस्तैः ॥ ईषदल्पं पिङ्गल ईषत्पिङ्गलः । अत्र पिङ्गलशब्दो पिङ्गलतालक्षणगुणे वर्तमानः सन् गुणिनि द्रव्यविशेषे वर्तते । ईषद्गार्यः, गुणैः क्रियया वा हीनो गार्य एवमुच्यते ॥ तृतीया, तेन तृतीयार्थेन कृतास्तैः ।। गुणवचनैरिति सम्बध्यते। तृती. याया नाम्नो विशेषणत्वेन तदन्त विधिः । तच्छब्देन तृतीयान्तपरामर्शिना तदर्थो लक्ष्यते, तदर्थकृतत्वञ्च गुणवचनञ्चार्थद्वारा विशेषणं