SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ प्रथमपादः] अवचूरिपरिष्कारसहितायाम् । ३४३ द्रोणो धान्यस्य ॥ स्वयंसामी क्तेन ॥ ५८ ॥ एते अव्यये क्तान्तेन सहकार्ये समासस्तत्पुरुषः स्याताम् । स्वयंधौतम् , सामिकृतम् । क्तेनेति किम् ? स्वयं कृत्वा ॥ द्वितीया खट्टा क्षेपे ॥ ५९ ॥ खट्रेति द्वितीयान्तं क्षेपे निन्दायां क्तान्तेन सहैकार्थे समासस्तत्पुरुषः स्यात् । खटारूढो जाल्मः । क्षेप इति किम् ! खट्टामारूढः पिताऽध्या. पयति ॥ कालः ॥६०॥ कालवाचिद्वितीयान्तं क्तान्तेन समासस्तत्पुरुषः स्यात् । राज्यारूढाः, अहरतिसृताः ॥ व्याप्तौ ॥ ६१ ।। गुणक्रियाद्रव्यैरत्यन्तसंयोगे या द्वितीया, तदन्तं कालवाचि व्यापकाथेन समासस्तत्पुरुषः स्यात् । मुहूर्वसुखम् , क्षणपाठः, दिनगुडः । व्याप्ताविति किम् ? मासं पूरको याति ॥ श्रितादिभिः ॥ ६२ ॥ स्वयञ्च सामि च स्वयंसामी, केन ।। स्वयं धौतं स्वयंधौतम्, सामि कृतं सामिकृतम् , सामिशब्दोऽर्द्धपर्यायः । समासे सत्यैकपद्यादेकविभक्तिस्तद्धितायुत्पत्तिश्च भवति ॥ द्वितीया, खट्टा, क्षेपे ॥ तेनेत्यनुवर्तते ॥ द्वितीयाया नाम्नो विशेषणत्वेन तदन्तविधिः॥ खटामारूढः खटारूढः, असमीक्ष्यकारीत्यर्थः, समुदायेनैव निन्दा गम्यत इति नित्यसमासोऽयम् , न हि वाक्येन निन्दा गम्यते ।। कालः॥ द्वितीया क्तेनेत्यनुवर्तेते । रात्रिमारूढा राज्यारूढाः, एवमग्रे । अव्याप्त्यर्थं आरम्भः ॥ व्याप्तौ ॥ पृथग्योगात् क्तेनेति निवृत्तम् । द्वितीया काल इति पदद्वयं वर्तते । गुणक्रियाद्रव्यैरत्यन्तसंयोगो व्याप्तिः । मुहूर्त सुखं मुहूर्तसुखं 'कालाध्वनोाप्ताविति द्वितीयाऽत्र गुणेनात्यन्तसंयोगः । क्षणं पाठः क्षणपाठोऽत्र क्रिययाऽत्यन्तसंयोगः । दिनं गुडः दिनगुडोऽत्र द्रव्येणात्यन्तसंयोगः । पूरयिष्यतीति पूरकः, णकच्प्रत्ययः तृन्नुदन्त' इति षष्ठीनिषेधान्नात्र व्याप्तौ द्वितीया ॥ श्रिता. दिभिः । द्वितीयेति सम्बध्यते । धर्म श्रितो धर्मश्रितः, धर्म प्राप्त इत्यर्थः । 'तयोरसदाधार' इति षष्ठीनिषेधः । यद्यपि धर्म:श्रितो
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy