________________
३४२
सिद्धहेमलधुवृत्तौ [ तृतीयाध्यायस्य दयः ॥ ५६ ॥ पूरणप्रत्ययान्ता द्वित्रिचत्वारोऽग्रादयश्चाभिन्नेनांशिना वा समासस्तत्पुरुषः स्यात् । द्वितीयभिक्षा, भिक्षाद्वितीयम् । तृतीयभिक्षा, भिक्षातृतीयम् । तुर्यभिक्षा, भिक्षातुर्यम् । अग्रहस्तः हस्ताग्रम् । तलपादः, पादतलम् ॥ कालो द्विगौ च मेयैः ॥ ५७ ॥ कालवाच्येकवचनान्तं द्विगौ च विषये मेयवाचिना समासस्तत्पुरुषः स्यात् । मासजातः । द्विगौ, एकमासजातः, व्यहसुप्तः। काल इति किम् ! द्वन्द्वः ॥ अभिन्ननाशिनेत्यनुवर्तते । द्वितीयं भिक्षाया द्वितीयभिक्षा, एवम । नित्याधिकाराभावादेव पक्षे वाक्यस्य सिद्धत्वाद्वाऽनुवृत्तिः पक्षे षष्ठीसमासाथ तेने 'तृप्तार्थपूरणाव्ययेति पूरणेन निषिद्धोऽपि षष्ठीसमासो भवति ॥ कालः, द्विगौ, च, मेयैः ॥ कालो मेयैरित्यभिनवार्थग्रहणादंशांशिभावनिवृत्तौ तत्सम्बद्धं वेति निवृत्तम् । मासो आतस्येति मासजातः, मासः कालः जातो मेयमित्यर्थो यस्य जननादूर्ध्व मासो गतः स मासजात इति व्यवह्रियते, तत्र मासजात ठरावहारकालजन्मकालयोर्मध्यवर्त्तिमासो जननद्वारा जातमपि परिच्छिनत्ति, अतो जात इति मेयवाचकम् । एको मासो जातस्यैकमासजातः काल इति चैकवचनं द्विगोरन्यत्र बोध्यम्, द्विगौ तु नैकवचनान्तत्वनियमोऽत एव द्वे अहनि सुप्तस्येति व्यहसुप्तः । उत्तरपदेन मेयेन द्विगोः सिद्धये बहूनां तत्पुरुषस्तथा द्वे अहनीति पदद्वयं सुप्तस्येत्यनेन समस्यते, ततत्रिपदे समासे जाते सुप्त इत्युत्तरपदे परे 'सङ्ख्यासमाहारे' चेति द्विगुसंज्ञायां द्विगुविषये द्वेरुत्तरपदनिमित्ते द्विगौ भाविनि त्रयाणां तत्पुरुषः 'सव्वाशसङ्ख्याव्ययात्' अट्समासान्तोऽहादेशश्च जातादिशब्दस्य कालविशेषणत्वेऽप्ययं समासो जातादिप्रधानस्तेन समासे लिङ्गं सङ्ख्या च तदीयतदीयमेव भवति, न तु कालवाचिशब्दस्य । चकारो द्विगुरहितकालपरिग्रहार्थः । अयं समासः कान्तेनैव मेयेन सह प्रायो भवति । षष्ठीसमासापवादोऽयम् ॥