________________
प्रयमपादः ] अवधूरिपरिष्कारसहितायाम् । ३४१ नाभेः कायस्य ।। सायाहादयः ॥ ५३ ॥ एतेऽशितत्पुरुषाः साधवः स्थुः । सायाह्नः, मध्यन्दिनम् ॥ समेंऽशेऽर्द्ध नवा ।। ५४ ॥ समांशार्थमर्द्धमंशिनाऽभिन्नेन वा समासस्तत्पुरुषः स्यात् । अर्द्धपिप्पली, पिप्पल्यर्द्धम् । समेंश इति किम् ? प्रामार्द्धः ॥ जरत्यादिभिः ।। ५५ ।। एभिरंशिभिरभिन्नैरो वा समासस्तत्पुरुषः स्यात् । अर्द्धजरती, जरत्यर्द्धः । अोक्तम् , उक्तार्द्धः ।। द्वित्रिचतुष्पूरणाग्रासमासः, कायेन तु स्यादेव पूर्वकायो नाभेरिति, पूर्वशब्दस्य नित्यसापेक्षत्वात् प्रधानत्वाच्च । यद्यपि समुदाये प्रवृत्ताः शब्दा अवयवेध्वपि प्रवर्तन्त इति न्यायात् कायशब्दस्याप्यवयववाचित्वे पूर्वश्चासौ कायस्येति समानाधिकरणकर्मधारयसमासेनैव काय इत्यादिरूपसिद्धिर्भवति, एवं सायाह्नादिरूपसिद्धिश्च, तथापीह तत्पुरुषविधानम् । कायस्य पूर्व कायपूर्व, अह्नः सायमित्यादिषष्ठीसमासबाधनार्थ सूत्रमिदम् ॥ सायाह्न आदिर्येषान्ते ॥ अंशिनेत्यभिसम्बध्यते ॥ सायमनः सायाह्नः ‘साशसहयादि'त्यत्प्रत्ययः, अहनस्थानेऽह्न च । सायंशब्दो यदा मान्तमव्ययं तदैतत्सूत्र निर्देशादेव मलोपः । दिनस्य मध्यं मध्यन्दिनम् , 'लोकंपृणमध्यंदिनानभ्याशमित्यम्'। समे, अंशे, अर्द्ध, नवा अभिन्नेनांशिनेत्यभिसम्बध्यते । अर्द्ध पिप्पल्या अर्द्धपिप्पली, 'गोश्चान्ते' इति न ह्रस्वोऽनंशिसमासेत्युक्तत्वात् , पक्षे षष्ठीतत्पुरुषः । अर्द्ध च सा पिप्पली चेति कर्मधारयेणैव सिद्धे, भेदविवक्षायां पक्षे षष्ठीसमासबाधनार्थमसमांशे चार्द्धश्चासौ ग्रामश्चेति कर्मधारयनिषेधार्थ वचनम् । अत्र समेंऽशे वर्तमानोऽर्धशब्दो नपुंसक एव, असमेंऽशे तु पुल्लिङ्गः ॥ जरती आदिर्येषान्तैः ।। अभिन्नेनांशिनाऽर्द्धमित्यनुवर्तन्तो वचनविपरिणामेन जरत्यादिभिस्सहाऽभिन्नांशिशब्दयोरन्वयः । अस. मांशार्थ आरम्भः । अझै अरत्या अर्द्धजरती, पक्षे तत्पुरुषः ।। द्विश्च त्रिश्च चत्वारश्च, द्वित्रिचत्वारश्च ते पूरणाश्च अग्रादिर्येषान्ते, ततो