SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ प्रथमपादः अवचूरिपरिष्कारसहितायाम् | ३४७ किम् ! पित्रेऽर्थः ॥ पञ्चमी भयाद्यैः ॥ ७३ ॥ पञ्चम्यन्तं भयाद्यैरैकार्थ्ये समासस्तत्पुरुषः स्यात् । वृकभयम्, वृकभीरुः ॥ तेनासवे ॥ ७४ ॥ असत्त्ववृत्तेर्या पश्चमी तदन्तं कान्तेन समासस्तत्पुरुषः स्यात् । स्तोकान्मुक्तः, अल्पान्मुक्तः । असत्त्व इति किम् ? स्तोकाद्वद्धः ॥ परःशतादिः ||७५ || अयं पञ्चमीतत्पुरुषः साधुः स्यात् । परःशताः, परः सहस्राः ॥ षष्ट्ययत्नाच्छेषे ।। ७६ ।। " शेषे " या षष्ठी तदन्तं नाम नाम्नैकार्थ्ये समासस्तत्पुरुषः स्यात् । न चेत्स शेषो " नाथ" इत्यादियत्नात् । राजपुरुषः । अयत्नादिति किम् ? सर्पिषो नाथितम् । शेष इति किम् ? गवां कृष्णा सम्पन्नक्षीरा ॥ कृति ॥ ७७ ॥ " कर्म्मणि कृतः " " कर्त्तरि " इति या कृन्निमित्ता षष्ठी, तदन्तं नाम नाम्ना समासस्तत्पुरुषः स्यात् । सप्पिर्ज्ञानम्, गणधरोक्तिः ॥ याजकादिभिः ॥ ७८ ॥ षष्ठयन्तं याजकाद्यैः समासस्तत्पुरुषः पित्रर्थ, डेरर्थो वाच्यवदिति वाच्यलिङ्गता, नित्यसमासश्चायं चतुभ्यैव तदर्थस्योक्तत्वादर्थशब्दाऽप्रयोगे वाक्यासम्भवात्, समासस्तु वचनाद्भवति । पित्रेऽर्थः पित्रर्थ धनमित्यर्थः ॥ पञ्चमी भयाद्यैः ॥ वृकाद्भयं वृकभयम्, वृकाद्भीरुः ॥ क्तेन, न सत्त्वमसत्त्वं तस्मिन् ॥ पञ्चमीत्यनुवर्तते । स्तोकान् मुक्तः स्तोकान्मुक्तः । ' स्तोकाल्पकृच्छ्रे 'ति पञ्चमी, 'असत्त्वे ङसेरित्यलुप् । स्तोकाद्बद्धः, द्रव्याद्बद्ध इत्यर्थः ॥ परः शतादिः । शतात् परे परश्शताः, परशब्दस्य पूर्वनिपातः सकारागमश्च निपातनात् ॥ षष्ठी, अयत्नात्, शेषे ॥ राज्ञः पुरुषो राजपुरुषः । सर्पिषो नाथितं 'नाथ' इति षष्ठी । गवामिति, 'सप्तमी चाविभागे' इति षष्ठी, न तु शैषिकी ॥ कृति ॥ सर्पिषः ज्ञानं सर्पिर्ज्ञानम् । यत्नजाया अपि षष्ठ्याः समासो विहितः । गणधरस्योक्तिः, एवं सिद्धसेनकृतिः, धर्मानुस्मरणम्, तत्त्वानुचिन्तनम् ॥ याजकादिभिः ॥ षष्ठीति सम्बध्यते । ब्राह्मणानां याजकः ब्राह्मणयाजकः, गुरूणां पूजको गुरुपूजकः । 'कर्मजा तृचा चे 'ति प्रतिषेधापवादो योगः, "
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy