SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ प्रथमपादः ] अषत्रिपरिष्कारसहितायाम् । ३३७ लक्षणहीनः । ऊरीकृत्य, खाटकृत्य, प्रकृत्य, कारिकाकृत्य, कुब्राह्मणः, कोष्णम् । अन्य इति किम् ? कुपुरुषकः ।। दुनिन्दाकृच्छ्रे ॥४३॥ दुरव्ययं निन्दाकृच्छ्रवृत्ति, नाम्ना सह नित्यं समासस्तत्पुरुषः स्यात् । दुष्पुरुषः, दुष्कृतम् । अन्य इति किम् ! दुष्पुरुषकः ॥ सुः पूजायाम् ॥ ४४ ॥ स्वित्यव्ययं पूजार्थ नाम्ना सह नित्यं समासस्तत्पुरुषः स्यात् । सुराजा । अन्य इति किम् ! सुमद्रम् ।। अतिरतिक्रमे च ॥ ४५ ॥ अतिक्रमे पूजायां चार्थे अतीत्यव्ययं नाम्ना सह नित्यं समासस्तत्पुरुषः स्यात् । अतिस्तुत्य, अतिराजा ।। आङल्पे ॥ ४६ ॥ आङित्यव्ययमल्पार्थ नाम्ना सह समासस्तत्पुरुषः स्यात् । षणमर्थवदिति न्यायेनाव्ययमिति कुशब्दस्य विशेषणम् , न तु गति. संज्ञानां तेषामव्यभिचारात् । कु इत्यव्ययं पापाल्पयोर्वर्तते न तु पृथिवीवृत्तिकुशब्दस्तस्याऽनव्ययत्वात् । ऊरीकृत्य 'ऊोद्यनुकरणे'ति गतिसंज्ञा । कारिकाकृत्य 'कारिका स्थित्यादाविति गतिसंज्ञा । कुत्सितो ब्राह्मणः कुब्राह्मणः, नित्यसमासत्वादस्वपदविग्रहोऽल्पार्थः । ईषदुष्णं कोष्णम् , कवोष्णं कदुष्णं 'काकवौ वोष्णे' 'कोः कत्तत्पुरुषे' । कुत्सिताः पुरुषा यस्य स कुपुरुषकः, अत्र बहुव्रीहित्वात्कच् भवति ॥ दुर्, निन्दा च कृच्छ्रञ्च तस्मिन् । अन्यस्तत्पुरुष इत्यभिसम्बध्यते एवमग्रेऽपि । निन्दितः पुरुषो दुष्पुरुषः, कृच्छ्रेण कृतं दुष्कृतम्। निन्दिताः पुरुषा यत्र सो दुष्पुरुषकः, 'निढुंबहिरि'ति षः ।। सुः पूजायाम् । शोभनो राजा सुराजा । मद्राणां समृद्धिः सुमद्रम् ।। ' विभक्तिसमीपे' त्यव्ययीभावः॥अतिः, अतिक्रमे, च ।। चशब्देन पूजायाः समुचयः। अतिक्रमेण स्तुत्वाऽतिस्तुत्य, पूजितो राजाऽतिराजा । बहुलाधिकारादतिक्रमे क्वचिन्न भवति, अतिश्रुत्वा । आङ्, अल्पे ।। ईषत्कडार
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy