SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ ३३६ सिरहेमलघुवृत्तौ . [तृतीयाध्यायस्य ण्डैषणमधीते ॥ योग्यतावीप्सार्थानतिवृत्तिसादृश्ये ॥४०॥ एष्वर्थेष्वव्ययं नाम्ना सह पूर्वपदार्थे समासोऽव्ययीभावः स्यात् । अनुरूपम् , प्रत्यर्थम् , यथाशक्ति, सशीलमनयोः ॥ यथाऽथा ॥४१॥ थाप्रत्ययवर्ज यथेत्यव्ययं नाम्ना सह पूर्वपदार्थे समासोऽव्ययीभावः स्यात् । यथारूपं चेष्टते, यथावृद्धमर्चय, यथासूत्रम् । अथेति किम् ? यथा चैत्रस्तथा मैत्रः ॥ गतिकन्यस्तत्पुरुषः ॥ ४२ ।। गतयः कुश्च नाम्ना सह नित्यं समासस्तत्पुरुषः स्यात् , अन्यो बहुव्रीह्यादिध्ययने प्रतीयत इति साकल्ये नाऽन्तभावः ॥ योगस्य भावो योग्यता, व्याप्तुमिच्छा वीप्सा, अतिवर्तनमतिवृत्तिः, नातिवृत्तिर. नतिवृत्तिः, अर्थस्यानतिवृत्तिरर्थानतिवृत्तिः, सशस्य भावः सादृश्यं ततः सर्वेषां द्वन्द्वस्तस्मिन् ।। अव्यय मित्यनुवर्तते। योग्यतायां रूपस्य योग्यमनुरूपम् , रूपस्य योग्यां चेष्टां कुरुत इत्यर्थः । वीप्सायां यथाऽर्थमर्थ प्रति प्रत्यर्थम् , समासेन वीप्साया द्योतितत्वात्ततनिमित्ता द्विरु. तिर्न प्रवर्तते । वीप्सायां द्वितीयाया विधानाद्वाक्यमपि भवति, अर्थमर्थ प्रति । पदार्थाऽनतिक्रमोऽर्थाऽनतिवृत्तिस्तत्र यथा शक्तिमनतिक्रम्येति यथाशक्ति, शक्रनतिक्रमेणेत्यर्थः, नात्र विन्यासविशेषो विवक्षितः, इति क्रमाद्भेदः । सादृश्ये यथा, शीलस्य सादृश्यं सशीलं अत्र सादृश्यग्रहणं मुख्य सादृश्यपरिप्रहार्थम् ॥ यथा, न विद्यते था यस्य स अथा । अनुवृत्तिः पूर्ववत् । यथेत्यव्ययं द्विविधं, प्रत्ययरहितम. व्युत्पन्नमव्ययमेकम, अन्यच्च थाप्रत्ययान्तम् , व्युत्पन्नस्य यथेत्यव्ययस्यानेन सूत्रेणाव्ययीभावः, यथारूपं चेष्टते रूपानुरूपमित्यर्थः, यथावृद्धमर्चय ये ये वृद्धास्तानित्यर्थः, यथासूत्रं सूत्रानतिवृत्त्येत्यर्थः । यद्यप्येतद्योग्यता वीप्सेति सूत्रेण सिद्ध्यत्येव तथाप्यस्य सादृश्ये समासप्रतिषेधाय वचनम् ॥ गतयश्च कुश्च गतिकु, अन्यः, तत्पुरुषः ॥ नाम नाम्नैकार्थेऽव्ययमित्यनुवर्तते । 'सम्भवे व्यभिचारे च विशे.
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy