________________
प्रथमपादः ]
अवरिपरिष्कारसहितायाम् ।
३३५
भोगाद्यभावः, अतिकम्बलम् । पश्चात्, अनुरथम् । क्रमः, अनुज्येष्ठम् । ख्यातिः, इतिभद्रबाहुः । युगपत् सचक्रं घेहि । सदृक् सत्रतम् ।
"
"
सम्पत्, सब्रझ साधूनाम् । साकल्यम्, सतृणमभ्यवहरति । अन्तः,
सपि -
"
!
यथा, यवनानां ऋद्ध्यभावो दुर्यवनम् । अर्थाभावो धर्मिणोऽसत्त्वं तंत्र यथा, मक्षिकाणामभावो निर्मक्षिकम् संसर्गाभावेऽयं समासः, न त्वन्योन्याभावे, अर्थप्रणसामर्थ्येन लिङ्गसङ्ख्यान्वयि समस्यमानपदजन्यप्रतीति विशेष्यविरोधिनोऽभावस्यैवाऽर्थाभाव शब्देन ग्रहणात्, घटः पटो नेत्यादौ प्रतियोगितावच्छेदक विरोधित्वेन भेदस्य समस्यमानपदजन्य प्रतीतिविशेष्यविरोधित्वाभावान्नाव्ययीभावः । अत्ययोऽतीतत्वम्, सत एवातिक्रान्तत्वं ध्वंस इत्यपि केचित् । तत्र यथा वर्षाणामतीतत्वमतिवर्षम् । असम्प्रतीति वर्त्तमानकाल उपभोगादेः प्रतिषेधः, न तु वस्तुनः कम्बलं सम्प्रति नोपभुज्यत इत्यति कम्बलम्, कम्बलस्योपभोगं प्रति नायं काल इत्यर्थः । पश्चादर्थे यथा, रथस्य पश्चादनुरथम् । क्रमः आनुपूर्व्यम्, तत्र यथा ज्येष्ठस्थानतिक्रमेणानुज्येष्ठम् । ख्यातिः शब्दप्रथा, भद्रबाहुशब्दस्य प्रकाश इतिभद्रबाहुः, भद्रबाहुशब्दो लोके प्रकाशत इत्यर्थः । युगपदेककालार्थः, चक्रेण युगपत् सचक्रम्, युगपदर्थे सहेत्यव्ययम्, 'अकालेऽव्ययीभाव ' इति सहस्य सभावः । सदृगर्थे व्रतस्य सदृशं सव्रतम्, अत्र सादृश्यं गुणभूतं प्राह्यमुत्तरसूत्रे मुख्यसादृश्यस्य ग्रहणात्, सत्रतमित्यत्र सादृश्यवतः प्राधान्यम्, अत एव सदृगित्युक्तम् । सम्पत् सिद्धिरात्मभावनिष्पत्तिः, समृद्धिस्त्वन्यभाव निष्पत्तिरिति भेदः, तत्र यथा ब्रह्मणः सम्पत् सब्रह्म, साधूनां सम्पन्नं ब्रह्मेत्यर्थः । साकल्यमशेषता, तत्र यथा तृणमप्यपरित्यज्य सतृणं न किञ्चित्त्यजतीत्यर्थः । अन्तः समाप्तिः, तत्र यथा पिण्डेषणापर्यन्तं सपिण्डैषणम्, अत्र समाप्तिर सकलेऽप्य