________________
३३४
सिद्ध हेमलघुवृत्तौ रथस्याक्षेण न तथावृत्तम् || विभक्तिसमीपसमृद्धिव्यृद्ध्यर्थाभावात्ययासंप्रतिपश्चात्कमख्यातियुगपत्स हक्सम्पत्साकल्यान्तेऽव्ययम् ॥ ३९ ॥ एष्वर्थेषु वर्त्तमानमव्ययं नाम्ना सह पूर्वपदार्थे वाच्ये नित्यं समासोऽव्ययीभावः स्यात् । विभक्तिर्विभक्त्यर्थः कारकम्, अधिस्त्रि । समीपम्, उपकुम्भम् । समृद्धिः, सुमद्रम् । विगता ऋद्धिर्वृद्धिः, दुर्यवनम् । अर्थाभावः, निर्मक्षिकम् । अत्ययोऽतीतत्वम्, अतिवर्षम् । असम्प्रतीति सम्प्रत्युप
[ तृतीयाध्यायस्य
1
भावः,
1
जीयते, तत्र पराजय एवायं समासः । एकेन दायेन न तथा वृत्तं यथा पूर्वं जय एकपरि । विपरीतवर्त्तने कर्तृत्वेनैका देस्तृतीया । नित्यसमासोऽयमपि, अतोऽस्वपदविग्रहः परिपदस्याप्रयोगात् ॥ विभजनं विभक्तिः, सङ्गतर्द्धिः समृद्धिः, विगतर्द्धिर्वृद्धिः, अर्थस्याभावोऽर्थाअत्यय न मत्ययः, न सम्प्रत्य सम्प्रति, ततश्च सर्वेषां द्वन्द्वस्तः स्मिन्नव्ययम् । नाम नाम्नैकायें पूर्वार्थेऽव्ययीभावो नित्यमित्यनुवर्त्तन्ते । एवमग्रेऽपि । विभक्त्यादयश्च श्रुतत्वादव्ययस्यैव विशेषणानि । एष्वर्थेष्वव्ययं द्योतकतया वर्त्तते, तत्र विभक्त्यर्थः कारकशक्तिर्न तु विभक्तिपदार्थः, विभज्यतेऽनया नामार्थ इति व्युत्पत्तेः । तत्र विभक्त्यर्थ उदाहरणम्, स्त्रियामित्यधिस्त्रि, सप्तम्यर्थस्यैवात्र द्योतको वाचको वाऽधिः, स्त्री ङि अधि, इत्यलौकिकं विग्रहवाक्यम्, अत्राघिनोक्तावप्यधिकरणे वचनसामर्थ्यात्सप्तमी, एवञ्च येन विभक्तयन्तेन समासस्तद्भटकविभक्त्यर्थवाचकादेव समासो विज्ञेयः । समीपे यथा कुम्भस्य समीपमुपकुम्भम् अव्ययीभाव इति महासंज्ञाकरणाद सत्त्वरूपाव्ययार्थ प्राधान्य एवायं समासः, समीपवर्तिप्राधान्ये तु 'अव्ययमिति बहुव्रीहिर्यथा उपदशाः । ऋद्धेराधिक्यं समृद्धिस्तत्र यथा, मद्राणां समृद्धिः सुमद्रम्, विगता ऋद्धिर्वृद्धिः, ऋषभावे
9