________________
प्रथमपादः ] अवरिपरिष्कारसहितायाम् । ३३३ वांचिनाम्ना पूर्वपदार्थे समासोऽव्ययीभावः स्यात् । अनुवनमशनिर्गता ।। तिष्ठहु इत्यादयः ॥ ३६ ॥ एते समासा अव्ययीभावाः स्युः, यथायोगमन्यस्य पूर्वस्य वा पदस्याथें । तिष्ठद्गुकालः, अधोनाभं हुतः ।। नित्यं प्रतिनाऽल्पे ॥ ३७ ।। अल्पार्थेन प्रतिना नाम नित्य समासोऽव्ययीभावः स्यात् । शाकप्रति । अल्प इति किम् ! वृक्षं प्रति विद्युत् ॥ सङ्ख्याक्षशलाकं परिणा द्यूतेऽन्यथावृत्ती ॥ ३८ ॥ सङ्ख्यावाच्यक्षशलाके च द्यूतविषयायामन्यथावृत्तौ वर्तमानेन परिणा सह नित्यं समासोऽव्ययीभावः स्यात् । एकपरि, अक्षपरि, शलाकापरि, एकेनाक्षेण शलाकया वा न तथा वृत्तं यथा पूर्व जय इत्यर्थः। सङ्ख्यादीति किम् ! पाशकेन न तथावृतम् । द्यूत इति किम् ! त्यादिनैव समासे सिद्धे विकल्पार्थमिदम् , तेन वाक्यमपि भवति, पृथग्वचनं लक्षणेने त्यस्य निवृत्त्यर्थम् ॥ तिष्ठद्गु इत्यादयः ।। तिष्ठन्ति गावो यत्र काले गर्भाय दोहदाय वा, स तिष्ठद्गुकालः । अयमन्यपदार्थे काले । नाभेरधरधोनाभम् , निपातनादत् समासान्तः, पूर्वपदार्थप्रधानोऽयम् । इति शब्दः स्वरूपपरिग्रहार्थस्तेनैषां वृत्त्यन्तरं न भवति ॥ नित्यं प्रतिना, अल्पे ॥ पूर्वार्थ इत्यधिकारेऽप्यसम्भवा. दस्योत्तरपदार्थप्रधान एवायं समासः । शाकस्याल्पत्वं शाकप्रति । नित्यग्रहणं वाक्यनिवृत्त्यर्थम् , तेनान्यत्र समासो वाक्यश्च भवति । सङ्ख्या च अक्षश्च शलाका च तत्, परिणा, द्यूते, अन्यथा वर्तनमन्यथा वृत्तिस्तस्मिन् ॥ नित्यमित्यनुवर्तते यावत् तृतीयोक्ते वेति सूत्रम् । तत्राक्षादयस्तृतीयान्ताः परिणा समस्यन्ते, अभशलाकयोचकवचनान्तयोरेवेष्यते, समासे द्वित्वाद्यनवगमात्, एकत्वस्यान्य. निरपेक्षत्वादन्तरङ्गत्वाचावगति सम्भवात, अन्यथा वृत्ताविति । पश्चिका नाम द्यूतं पञ्चभिरक्षैः शलाकाभिर्वा भवति तत्र यदि सर्वे उत्तानाः पतन्ति, अवाञ्चो वा, तदा पातयिता जयति, अन्यथा तु