________________
३३२
सिमलघु
[ तृतीयाध्यायस्य
॥ ३३ ॥ लक्षणं चिह्नम्, तद्वाचिनाऽऽभिमुख्यार्थावभिप्रती पूर्वपदार्थेSर्थे समासो ऽव्ययीभावः स्यात् । अभ्यमि, प्रत्यमि शलभाः पतन्ति । लक्षणेनेति किम् ? श्रुघ्नं प्रति गतः । पूर्वपदार्थ इत्येव ! अभ्यक्का गावः ॥ देऽनुः ॥ ३४ ॥ दैयें आयामविषये यल्लक्षणं तद्वाचिना पूर्वपदार्थेऽनुः समासोऽव्ययीभावः स्यात् । अनुगङ्गं वाराणसी । दैर्घ्य इति किम् ? वृक्षमनु विद्युत् ॥ समीपे ॥ ३५ ॥ समीपार्थेऽनुः समीपि तस्मिन् ॥ ईदूदेद्दिवचनमित्यसन्धिर्न सौत्रत्वाल्लाघवाच्च । अभि अभि अभ्यमि 'लक्ष'गवीप्स्ये 'ति द्वितीया । एवं प्रत्यग्नि, 'भागिनि चे 'ति द्वितीया । अभिज्ञाप्यं शलभकर्तृकं पतनमिति बोधः, तथा बोधे चाग्न्यभिमुखत्वं शलभपतनस्य लोकप्रसिद्ध्या मनसा गृह्यते, इत्यभिप्रतिशब्दौ ज्ञापकत्वसम्बन्धेनाऽऽभिमुख्यस्य द्यौतकौ । प्रति गत इति, परावृत्यगमनं धात्वर्थः, तन्निरूपित कर्मत्वाच्छ्रन्नमिति द्वितीया, श्रुघ्नादन्यन्नगरान्तरं गन्तुकामो मध्य एव व्यामोहात्तमेव श्रुधनं प्रत्यागत इति नास्ति गमनं प्रति श्रुघ्नस्य लक्षणता, यदुद्दिश्य हि गमनं क्रियते, तल्लक्षणं भवति, अत्र तु व्यामोहादेवेत्थं गतः, गतक्रिया - पेक्षया च श्रुन्नस्य कर्मत्वम् । अभिमुखोऽङ्को यासां ता अभ्यङ्काः, अङ्को हात्र भवति गवां लक्षणं तथापि न पूर्वपदार्थोऽभिधेयः, किन्वन्यपदार्थ एव || दीर्घस्य भावो दैर्घ्यं तस्मिन्ननुः || लक्षणेनेत्यनुवर्तते । अनु गङ्गां दीर्घा अनुगङ्गम् । ननु लक्ष्यलक्षणयोर्द्वयोरप्यायामववात्सन्देहः, किं गङ्गा लक्षणं वाराणसी वेति ? उच्यते, अनेकदेशव्याप्यगङ्गाया आयामवत्त्वेनानेकजनापेक्षया प्रसिद्धत्वात्तस्या एव लक्षणत्वम् । वाराणसीशब्देन च तदायामो वाराणस्यायाम इति बोधः । वृक्षमन्विति 'भागिनि चेति द्वितीया । अत्र वृक्षो विद्योतनस्य लक्ष
त्वेन विवक्ष्यते न त्वायामस्य || समीपे || अनुरित्यनुवर्तते । अनु वनस्यानुवनम्, वनस्य समीपं गता इत्यर्थः । 'विभक्तिसमीपे '