________________
प्रथमपादः ]
अवचूरिपरिष्कारसहितायाम् ।
१३१
यावदियत्वे ॥ ३१ ॥ इयत्त्वेऽवधारणे गम्ये यावदिति नाम नाम्वा पूर्वपदार्थे वाच्ये समासो ऽव्ययीभावः स्यात् । यावदमत्रं भोजय । इयत्त्व इति किम् ! यावद्दवं तावद्भुक्तम् । पर्यपाऽऽ - बहिरच् पश्चम्या ||३२|| एतानि पञ्चम्यन्तेन पूर्वपदार्थे वाच्ये समासो ऽव्ययीमावः । परित्रिगर्त्तम्, अपत्रिगर्तम्, आग्रामम्, बहिर्ग्रामम्, प्राग्ग्रामम् । पञ्चम्येति किम् ? परिवृक्षं विद्युत् ॥ लक्षणेनाभिप्रत्याभिमुख्ये ल्प्येते तत्रापवादे मुक्त उत्सर्गो न प्रवर्त्तत इति । तत्प्रवृत्त्यर्थं यदि कश्चनोपायः क्रियते तदा तु प्रवर्त्तत इति बोध्यम् ॥ यावत्, इयतो भाव इयत्त्वम् तस्मिन् ॥ सङ्ख्या दिनेयत्तापरिच्छेदोऽवधारणम् । यावन्त्यमन्त्राणि यावदमन्त्रम् । यावन्त्यमत्राणीति निर्ज्ञातपरिमाणेनामश्रादिना तावन्त इत्यतिथिपरिमाणमिहावधार्यते । यावद्दत्तं तावद्भुत मिति कियदुक्तं नावधारयामीत्यर्थः । यावद्दत्तमित्य समस्त मिदमत एव ताबदित्युपादीयते, समासे हि गुणीभूतत्वात्, तावदित्यस्योपादानाभावः स्याद्यथा यावदमत्रमित्यत्र । परिश्व अपश्च आङ्च बहिश्च अञ्च तत्, पञ्चम्या तृतीया ॥ परि त्रिगर्तेभ्य इति परित्रिगर्तम्, 'पपाभ्यां वयें' इति पञ्चमी, आप्रामम्, 'आङावधावि'ति पचमी, प्राममर्यादाका वृष्टिरित्यर्थः । प्रामाद्वहिरिति बहिर्मामम्, ' प्रभृत्यन्यार्थ' इति पञ्चमी, प्रामावधिको बहिर्देशस्तत्स्थं वस्तु बेत्यर्थः । बहिश्शब्देन समभिव्याहृतपदार्थतावच्छेदकानधिकरणत त्सन्निहितदेशतत्स्थवस्तु च बहिष्ट्रेनोच्यते । प्राग्ग्रामम् प्राचि देशे वसतीति प्राकू, 'दिक्शब्दा देशका लेवि 'ति धाप्रत्ययः, 'अदूरे एन' इत्यनेनैनप्रत्ययो वा तस्य 'लुबचेरिति लुब्, अव्ययमिदम्, पर्यादिसाहचर्यादव्ययस्यैव प्रहणात्, तद्योगे प्रामशब्दात् ' प्रभृत्यन्यार्थ ' इति पञ्चमी । परिवृक्षं विद्योतते विद्युदिति, 'भागिनि च' इति पञ्चमी ॥ लक्षणेन, अभिश्च प्रतिश्व अभिप्रती, अभिमुखस्य भाव आभिमुख्यं -
5
"