________________
३३० सिद्धहेमलघुवृत्तौ - [तृतीयाध्यायस्य वणम् , अन्तर्गिरिम्। पक्षे गङ्गापारम् , गङ्गामध्यम् ,वनानम् , गिर्यन्तः॥ अप्रेवणम् , 'निष्प्रागेऽन्त' इति णत्वम् , वनस्यानम् । पक्षे 'षष्ठययत्नाच्छेष' इति समासः । पारे मध्ये इत्यायेकारान्ततानिपातो यत्र सप्तम्यर्थो न सम्भवति तदर्थम् , सप्तम्यर्थसम्भवे तु बहुलवचनाद. लुप्यपि सिद्ध्यति । अत्र तु सप्तम्यर्थाऽभावः । नन्वत्र वावचनं किमर्थ 'नित्यं प्रतिनाऽल्पे' इत्युत्तरसूत्रेण नित्यग्रहणात्तत्पूर्वसूत्रेषु वैकल्पिकत्वस्य लाभात्यारं गङ्गाया इति समासविमुक्त वाक्यस्य सम्भवात् , न च बहुलाधिकारादेव वाक्यमपि भविष्यतीति कि वाग्रहणेनेति वाच्यम् , तथा सत्यव्ययीभावेन मुक्त गङ्गापारमिति षष्ठीसमासार्थ तदाऽऽवश्यकत्वात् । न चाव्ययीभावोऽपि बहुलाधिकाराद्विकल्पेन भवतीति पक्षे षष्ठीसमासः, तस्यापि बहुलाधिकारे पतितत्वाद् वाक्यमपि भविष्यतीति वाग्रहणं निरर्थकमेवेति चेदुच्यते, विकल्पस्याऽवचने पूर्वकायवदंशिसमासविमुक्ते, पक्षे यथा षष्ठीसमासो न भवति किन्तु वाक्यमेव, एवमत्रापि षष्ठीसमासो न स्यादिति वाग्रहणम् । ननु किं कारणमंशिसमासेन मुक्त षष्ठीसमासो न भवतीति, उच्यते, 'समासतद्धिताना वृत्तिर्विकल्पेन, वृत्तिविषये च नित्यैवापवादप्रवृत्तिः,' इति न्यायात् । परार्थस्य स्वार्थातिरिक्तस्य वाक्येनाभिधाने प्राप्ते वृत्तिरारभ्यमाणा येन नाप्राप्त' इति न्यायाद्वाक्यस्य बाधिका प्राप्नोतीति विकल्पेन तस्यानुज्ञानेन न्यायेनोच्यते तथा वृत्तिपक्ष उत्सर्गापवादरूपयोवृत्योरसम्भव उत्सर्गस्य नित्यमेव षाधोऽनेन न्यायेनोच्यते । तथा चात्र वाग्रहणाभावेऽपवादोऽव्ययीभावो बहुलाधिकाराद्विधीयमानोऽपि विकल्पो बाक्यस्येवाऽभ्यनुज्ञानं करोतीत्युपसर्गस्य षष्ठीसमासस्य नित्यमेव बाधः स्याद्, अतो वाग्रहणं तेनोत्सर्गोऽपि पक्षेऽनुज्ञायत इति त्रैरूप्यं सिद्ध्यति । एववेदमेव वाग्रहणं ज्ञापयति — यत्रोत्सर्गापवादी बहुलाधिकारेण विक