________________
प्रथमपादः ]. अषत्रिपरिष्कारसहितायाम् । स्यात् । द्वियमुनम् , पञ्चनदम् । समाहारेति किम् ? एकनदी । द्विगुवाधनार्थ वचनम् ॥ वंश्येन पूर्वार्थे ।। २९ ।। विद्यया जन्मना वा एकसन्तानो वंशः, तत्र भवो वंश्यः, तद्वाचिना नाम्ना सङ्ख्यावाचिसमासोऽव्ययीभावः स्यात् , पूर्वपदस्यार्थे वाच्ये । एकमुनि व्याकरणस्य, सप्तकाशि राज्यस्य । पूर्वार्थ इति किम् ! द्विमुनिकं व्याकरणम् ।। पारेमध्येऽग्रेऽन्तः षष्ट्या वा ॥ ३० ॥ एतानि षष्ठ्यन्तेन पूर्वपदार्थे समासोऽव्ययीभावो वा स्युः । पारेगङ्गम् , मध्येगङ्गम् , अग्रेभिसम्बध्येते । समाहार इत्युक्तत्वादन्यार्थ इति निवृत्तम् , उभयपदप्रधानसमासोऽनेन विधीयते । द्विगोरपवादोऽयम् । द्वयोर्यमुनयोः समाहारो द्वियमुनम्, प्रक्रिया पूर्ववत् । पञ्चानां नदीनां समाहारः पश्चनदम् । ' समाया नदीगोदावरीभ्यामि'त्यत्समासान्तः, 'अवर्णे वर्णस्ये' तीलोपः । एका चासो नदी च ' सर्वादयोऽस्यादौ' पुंव. द्भावः, एकनदी ॥ वंश्येन, पूर्वस्यार्थः पूर्वार्थस्तस्मिन् । अव्ययीभावः सत्येति वर्तते । एकसन्तान एकस्वभावः सन्तानप्रबन्धः । एको मुनिवेश्य इत्येकमुनि । वंश्योऽत्राऽऽद्यः कारणपुरुपो ग्राह्यः । व्याकरणस्येति, व्याकरणस्याऽऽद्यप्रणेता मुनिरेक इत्यर्थः । विद्यातद्वता. मभेदविवक्षायामप्येकमुनिव्याकरणमित्यत्राऽप्यनेनैव समासः, तदा व्याकरणशब्दात्तु प्रथमा भवति । एको मुनिर्यस्येत्यन्यपदार्थस्य प्राधान्यं विवक्ष्यते तदैकमुनि व्याकरणमिति बहुव्रीहिरेव । प्रथमैक. वचने भेदाभावेऽपि द्विवचनादौ भेदः स्पष्ट एव । सप्त काशयो वंश्या इति सप्तकाशि, जन्मनेत्यस्योदाहरणमिदम् । द्वौ मुनी वंश्यो यस्य तत् ' शेषाद्वा' कच् ॥ पारेश्व मध्येश्च अग्रेश्च अन्तश्व, पष्ठया तृतीया, वा ॥ अव्ययीभावः पूर्वार्थ इत्यनुवर्तेते, एवमप्रेऽपि । पारं गङ्गायाः पारेगङ्गम् , एवममे पारमध्याप्रशब्दानामेतदन्तत्वमने नैव निपात्यते ।
- ४२