SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ ३२८ सिद्धहेमलघुवृत्तौ । [ तृतीयाध्यायस्य येति प्रहत्येति च किम् ? केशेषु च केशेषु च स्थित्वा, दण्डैश्च दण्डैश्चागत्य कृतं युद्धं गृहकोकिलाभ्याम् । सरूपेणेति किम् ? हस्ते च पादे च गृहीत्वा कृतं युद्धम् । युद्ध इति किम् ! हस्ते च हस्ते चादाय सख्यं कृतम् ॥ नदीभिर्नाम्नि ॥ २७ ॥ नाम नदीवाचिना संज्ञायामन्यपदार्थे समासोऽव्ययीभावश्च स्यात् । उन्मत्तगङ्गं देशः, तूष्णीगङ्गम् । नाम्नीति किम् ? शीघ्रगङ्गो देशः ॥ सङ्घया समाहारे ।। २८॥ सध्यावाचि नदीवाचिभिः सह समाहारे गम्ये समासोऽव्ययीभावः क्रिया च । एवञ्च परस्परकेशाधिकरणकतद्वत्पुरुषकर्मकग्रहणोत्तरकालिककृतिमत्पुरुषकर्तृका युद्धादि क्रियेति बोधः । दण्डैदण्डैश्च प्रहृत्य कृतं युद्धं दण्डादण्डि, बोधः पूर्ववत् । 'इज् युद्ध' इति इच्समा. सान्तः, 'इच्यस्वरे दीर्घ आच्चे 'ति पूर्वपदस्य दीर्घ आकारः । अव्ययीभावत्वादव्ययत्वम् । युद्ध इति विषयनिर्देशाद्युद्धोपाधिकायामन्य. स्यामपि क्रियायां भवति । तेन बहुबाहवी व्यास्रजेतामित्यादि सिद्धिः, बाह्वोश्च बाह्वोश्च मिथो गृहीत्वा व्यासङ्गः कृत इति विग्रहः । पाणिनीये समासोऽयं बहुव्रीहिसंज्ञकः ॥ नदीभिर्नाम्नि ॥ अन्यपदार्थे. ऽव्ययीभाव इति पदद्वयमनुवर्त्तते । उन्मत्ता गङ्गा यत्र स उन्मत्तगङ्गं देशः, परतः स्त्री पुंवत्' 'द्वन्द्वैकत्वाव्ययीभावावि'ति लिङ्गानुशासना. दव्ययीभावस्य नपुंसकत्वम् , ततश्च । क्लोब' इति ह्रस्वः, ततः स्यादिविभक्तेः 'अमव्ययीभावस्यातोऽपञ्चम्या' इत्यम्भावः । तूष्णीं गङ्गा यत्र, पूर्ववत् । इमौ देशविशेषनामनी । नदीपर्यायाणान्तु न ग्रहणम् , नदीस्वरूपस्यैव ग्रहणादेकवचने हि ‘स्वं रूपं शब्दस्याशब्दसंज्ञेति न्यायेन केवलस्य नदीशब्दस्यैव ग्रहणं स्यात् , तन्मा भूदित्यतो बहु. वचनं नदीविशेषाणामपि ग्रहणाय । अत एवोत्तरसूत्रे नदीशब्देन नदीविशेषवाचिभिश्च सहाव्ययीभावः समासः सिद्धः ॥ सङ्ख्या, समाहरणं समाहारस्तस्मिन् समाहारे ॥ अव्ययीभावो नदीभिरित्य.
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy