SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ ३१८ .. सिद्धहेमलघुवृत्तौ . [ तृतीयाध्यायस्य तृप्ताविति किम् ? तण्डुलावयवे कणे हत्वा ॥ पुरोऽस्तमव्ययम् ॥ ७ ॥ एतावव्ययौ गती स्याताम् । पुरस्कृत्य, अस्तङ्गत्य। अव्ययमिति किम् । पुरः कृत्वा, नगरीरित्यर्थः ॥ गत्यर्थवदोऽच्छः ॥८॥ अच्छेत्यव्ययं गत्यर्थानां वदश्च धातोः सम्बन्धि गतिः स्यात् । अच्छगत्य, अच्छोद्य ॥ तिरोऽन्तौं ॥९॥ तिरोऽन्तौ गतिः स्यात् । तिरोभूय ॥ कृगो नवा |॥ १० ॥ तिरोऽन्तौं कृगः सम्बन्धि गतिर्वा स्यात् । तिरस्कृत्य, तिरःकृत्य, पक्षे तिरः कृत्वा ।। मध्येपदे: निवचनेमनस्युरस्यनत्याधाने ॥ ११ ॥ अनत्याधानमनुपश्लेषोऽनाश्चर्य वा, तद्वृत्तय एतेऽव्ययाः कृग्योगे गतयो वा स्युः । मध्ये. कृत्य, मध्येकृत्वा । पदेकृत्य, पदेकृत्वा। निवचनेकृत्य, निवचनेकृत्वा । तिशयहननप्रागभाव समान कालिकत्वे विवक्षित उक्तसूत्रेण क्वा. प्रत्ययः ॥ पुरश्च अस्तञ्च, अव्ययम् ॥ पूर्वपर्यायः पुरश्शब्दः, अनु. पलब्ध्यर्थोऽस्तं शब्दः । पुरस्कृत्येत्यत्र 'नमस्पुरस' इति रस्य सः। पुरः कृत्वा इत्यत्र शसन्तत्वात् सकारान्तत्वं विज्ञेयम् । पुरो नगरी: कृत्वेत्यर्थः । न चात्र गतिसंज्ञायामपि समासे सति विभक्तिनिवृत्ती सकारान्तत्वाभावेन संज्ञिरूपस्य पुरसोऽसम्भवाद् गतिसंज्ञाया अपि निवृत्तेः समासादिकार्यस्यापि निवृत्तिर्भवतीति किमव्ययविशेषणेनेति वाच्यम् ‘एकदेशविकृत ०' न्यायेन स्यादिनिवृत्तावप्यनन्यत्वात्संज्ञाया अनिवृत्तेः ॥ गतिरों येषान्ते, गत्यर्थाश्च वञ्च तस्य, अच्छः ।। अव्ययमित्यनुवर्तते । अच्छेत्यव्ययमभिशब्दार्थे ४ढार्थे च । अच्छ. गत्य अच्छोद्य, अभिमुखं गत्वोत्वा चेत्यर्थः ॥ तिरस् अव्ययम्, अन्तर्धानमन्तर्द्धिः तस्मिन् ॥ तिरोभूय अदृश्यीभूयेत्यर्थः ॥ कृगः षष्ठी, नवा ॥ पूर्वसूत्रमनुवर्तते । प्राप्तविभाषेयम् । तिरस्कृत्य, 'तिर. सो वे 'ति रस्य सः ॥ मध्येश्च पदेश्च निवचनेश्च मनसिश्च उरसिश्च, न अत्याधानं तस्मिन् । पूर्वसूत्रमनुवर्तते । एतानि सप्तम्येकवचनान्त:
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy