________________
प्रथमपादः ].
अवचूरिपरिष्कारसहितायाम् ।
३१७
डाजन्तः, पटपटाकृत्य । उपसर्गः, प्रकृत्य ॥ कारिका स्थित्यादौ || ३ || स्थित्यादावर्थे कारिका गतिः स्यात् । स्थितिर्मर्यादा वृत्तिर्वा, कारिकाकृत्य || भूषाssदरक्षेपेऽलंसदसत् ॥ ४ ॥ एष्वर्थेष्वेते यथासङ्ख्यं गतयः स्युः । अलङ्कृत्य, सत्कृत्य, असत्कृत्य । भूषादिष्विति किम् ? अलङ्कृत्वा, मा कारीत्यर्थः ॥ अग्रहाऽनुपदेशेऽन्तरदः ॥ ५ ॥ अनयोरर्थयोरेतौ यथासङ्ख्यं गती स्याताम् । अन्तर्हत्य, अदःकृत्यैतत्कर्तेति ध्यायति ॥ कणेमनस्तृप्तौ ॥ ६ ॥ एतावव्ययौ तृप्तौ गम्यमानायां गती स्याताम् । कणेहत्य, मनोहत्य, पयः पिबति ।
अव्यक्तादनुकरणादि ति डाच् द्विश्व, 'डाच्यादाविति तलोपः, अवशिष्टं पूर्ववत् । ऊरी ऊररी अङ्गीकरणे विस्तारे च ॥ कारिका, स्थितिरादिर्यस्य तस्मिन् || आदिशब्दाद् यत्नधात्वर्थनिर्देशौ गृह्येते, श्लोकवाची कारिकाशब्दोऽत्र न गृह्यते, धातुसम्बन्धसम्भवेऽपि प्रयोगादर्शनात् । करणं कारिका, तां कृत्वेति कारिकाकृत्य, स्थितिं यत्नं क्रियां वा कृत्वेत्यर्थः ।। भूषा च आदरश्च क्षेपश्च तस्मिन्, अलञ्च सच्च असश्च ॥ अलङ्कृत्य विभूष्येत्यर्थः । क्षेपोऽनादरः ॥ न ग्रहः अमहः, न उपदेशः अनुपदेशः, अमहवानुपदेशश्च तस्मिन्, अन्तश्च अदश्च ॥ अग्रहोऽस्वीकारः, स्वयं परामर्शो विशेषाऽनाख्यानं वाऽनुपदेशः । अन्तःशब्दो मध्येऽधिकरणभूते वर्तते परिग्रहे च, तत्र परिमहे प्रतिषेधादितरत्र गतिसंज्ञा । अंतर्हत्य मध्ये हिंसित्वा शत्रून् गत इत्यर्थः । अदःशब्दस्त्यदादावव्ययमिति केचित् ॥ कणेश्च मनश्च तृप्तौ ॥ तृप्तिरत्र श्रद्धाप्रतिघातः । कणेशब्दः सप्तमीप्रतिरूपको निपातोऽभिलाषाऽतिशये वर्तते । मनः शब्दोऽप्यत्रैव । कणेहत्य, अत्यन्तमभिलष्य तन्निवृत्तिपर्यन्तं पिबतीत्यर्थः तथा च श्रद्धाया अपगमात्तदुच्छेदो गम्यते, 'परावरे' इति क्वाप्रत्ययः, नतु 'प्राक्काले क्वा' पय:पानक्रियाया एव पूर्वकालिकत्वात् । एवञ्च पयःपानक्रियायाः श्रद्धा
“