________________
३१६ सिद्धहेमलघुवृत्तौ ... [तृतीयाध्यायस्य गच्छति, आगच्छति परि; अति सिक्का । धातोरिति प्राक् चेति च गतिसंज्ञां यावत् ॥ ऊर्याद्यनुकरणच्चिडाचश्च गतिः ॥ २॥ एते उपसर्गाश्च, धातोस्सम्बन्धिनो, गतयः स्युस्ते च प्राग्धातोः। ऊर्यादिः, ऊरीकृत्य, उररीकृत्य । अनुकरणम् , खाट्कृत्य । च्च्यन्तः, शुक्लीकृत्य । तीति धात्वर्थद्योतित्वाभावानोपसर्गसंज्ञा, अत एव सेक इत्यत्र न सकारस्य पत्वम् । सु सिक्तम्, अत्र सेकगतपूज्यत्वद्योतकः सुः, क्रियापूज्यत्वकृतः तत्तक्रियाकर्तुः पूज्यत्वमिति पूज्यार्थद्योतकत्वात् सोः अतेश्च नोपसर्गत्वम्, अत एव न षः । अध्यागच्छति पर्यागच्छति, अत्र अधिपरिद्योत्य उपरिभावः सर्वतोभावश्चान्यतः प्रकरणादेः प्रतीयत इति गतार्थता । अत्र प्राक्त्वनियमाभावः । यदर्थ क्रिया तस्मिन्निष्पन्ने क्रियाप्रवृत्तिरतिक्रमः, तद्योतिनोऽतेनोपसर्गसंज्ञा, यथाऽपि सिक्का, अत्रापि न षत्वम् , समासाभावाञ्च यबादेशाभावः। अनेनोपसर्गसंज्ञाविधानेन 'संज्ञा न संज्ञान्तरवाधिके ति न्यायः सूच्यते, अन्यथोत्तरसूत्रेण क्रियमाणया गतिसंज्ञयोपसर्गसंज्ञाया बाधे निष्फलत्वादुपसर्गसंज्ञा निष्फला भवेत् ॥ ऊरी आदियेंषान्ते, ऊर्यादयश्चानुकरणश्च च्चिश्व डाच ते, च, गतिः । च्चिपदेन डाचपदेन च तदन्तविधिः, यद्यपि 'संज्ञोत्तरपदाधिकारे प्रत्ययग्रहणे प्रत्ययमात्र. स्यैव ग्रहणं न तदन्तस्य,' 'तदन्तं पदमिति ज्ञापकात्, तथापीह तदन्तग्रहणम् , केवलयोटिवडाचोर्गतिसंज्ञायाः प्रयोजनाऽभावात् । सोऽयमित्यभेदोपचारेण कुतश्चित्सादृश्यायेनानुक्रियते तदनुकरणम् । चशब्देनोपसर्गाणां ग्रहणम् । ऊरीकृत्वेत्यूरीकृत्य । अनेन गतिसं. ज्ञायां 'गतिकन्यस्तत्पुरुष' इति समासः, 'अनञः क्वो यप्' एव. मुररीकृत्य । खाडिति कृत्वा खाटकृत्य गता विद्युत्, रूपं पूर्ववत् । अशुक्खं शुद्धं कृत्वेति शुक्लीकृत्य, 'कृभ्वस्तिभ्यामिति च्विः, च्च्यन्तत्वाद्गतिसंज्ञायां समासः प्राग्वत् । पटदिति कृत्वा पटपटाकृत्य,