SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ अर्हम् ॥ अथ तृतीयाध्यायस्य प्रथमपादः॥ धातोः पूजार्थस्वतिगतार्थाधिपर्यतिकमार्थाऽतिवर्जः प्रादिरुपसर्गःप्राक् च ॥१॥ धातोः सम्बन्धी तदर्थद्योती प्रादिरुप धातोः पश्चगी, पूजा अर्थो ययोस्तौ पूजार्थों, सुश्च अतिश्च स्वती, पूजार्थौ च स्वती च पूजार्थस्वती, गतो ज्ञातोऽर्थो ययोस्तौ गतार्थों, अधिश्च परिश्च अधिपरी, गतार्थौ च तो अधिपरी च, अतिक्रमोऽर्थो यस्य, अतिक्रमार्थः, अतिक्रमार्थश्चासावतिश्च, ततः सर्वेषां द्वन्द्वः, तान् वर्जयतीति पूजार्थस्वतिगतार्थाऽधिपर्यतिक्रमार्थोऽतिवर्जः, प्र आदिर्यस्यासौ प्रादिः, उपसर्गः, प्राक्, च ॥ धातोरिति पदमावर्तनीयम , एकश्च षष्ठ्यन्तत्वेन विपरिणम्य प्रादिना सम्बन्धनीयम् , धातुसम्ब. न्धित्वश्च प्रादीनां तदर्थयोतकतया । तदर्थद्योतीत्युक्तत्वादुपसर्गाणां द्योतकत्वं सम्मतमिति गम्यते । द्योतकत्वश्च तात्पर्यग्राहकत्वमिति केचित्, यथा सुखमनुभवतीत्यादौ प्रतीयमानोऽनुभवादिर्न धात्वर्थः, भवतीत्यत्रापि तत्प्रतीत्याऽऽपत्तेः, नोपसर्गस्यार्थः, प्रत्ययानां प्रकृत्यर्थेनान्वितस्य स्वार्थस्य बोधकत्वादनुभवादेरुपसर्गार्थत्वेऽप्रकृत्यर्थत्वेन तत्र तिवाद्यर्थान्वयाभावप्रसङ्गात्, अनुगच्छतीत्यादावप्यनुभवादिप्रतीत्यापत्तेश्च । नवा धातूपसर्गविशिष्टस्याथै गौरवात् । तथा चानुभवादिरूपार्थे भ्वादिधातोरेव लक्षणा, उपसर्गस्तु तात्पर्य ग्राहकः । अत एवोपास्यते गुरुरित्यादौ आसूधातोरुपासनारूपफलवाचकाकर्मणि प्रत्ययः, अन्यथोपासनाया। उपसर्गार्थत्वे आसधातोरकर्मकतया कर्मणि प्रत्ययानापत्तिः स्यादिति । अन्ये तु धातूनामनेकार्थत्वादनुभवाद्यर्थेऽपि
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy