________________
सिद्धमलघुवृत्तौ
[ द्वितीयाध्यायस्य
नरिकामामिकयोरित्वं निपात्यते । नरिका, मामिका ॥ तारकावर्णकाष्टका ज्योतिस्तान्तवपितृदेवत्ये ॥ ११३ ॥ एतेष्वर्थेषु यथासङ्ख्यमेते इवर्जा निपात्यन्ते । तारका ज्योतिः, वर्णका प्रावरणविशेषः, अष्टका पितृदैवत्यं कर्म ॥
३१२
इत्याचार्यश्री हेमचन्द्रविरचितायां सिद्धद्देमचन्द्राभिधानस्वोपज्ञशब्दानुशासनलघुवृत्तौ द्वितीयस्याध्यायस्य समासविषयश्चतुर्थः पादः समाप्तः ॥ २४ ॥
तारका च वर्णका चाष्टका च ताः, ज्योतिश्च तान्तवश्च पितृदेवत्यच तस्मिन् । अन्यत्र तारिका, वर्णिका भागुरी लोकायतस्य, अष्टका खारी अष्टौ द्रोणाः परिमाणमस्या इत्यष्टिका । सर्वत्र इवे प्राप्ते तद्रहिता उक्तेष्वर्थेषु निपात्यन्ते ॥
इति द्वितीयाध्यायस्य चतुर्थपादे समासप्रकरणात्मकः अवचूरिपरिष्कारः समाप्तः ॥