SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ चतुर्थपाद: ] अवचूरिपरिष्कारसहितायाम् । ३११ पुत्रका । वृन्दारिका, वृन्दारका ॥ वो वर्तिका ॥ ११० ॥ शकुनावर्थे वर्णिकाया इत्वं वा स्यात् । वर्तिका, वर्त्तका । वाविति किम् ? वर्तिका भागुरी ॥ अस्यायत्तत्क्षिपकादीनाम् ॥१११॥ यदादिवर्जस्यातोऽनित्क्याप्परे इः स्यात् । पाचिका, मद्रिका । अनित्की. त्येव ! जीवका। आप्पर इत्येव ! बहुपरिव्राजका । यदादिवर्जन किम् ! यका, सका, क्षिपका, ध्रुवका । नरिकामामिका ॥११२॥ -------- -- पर एव आप, तथा चाप्परत्वं नास्तीति नास्य सूत्रस्य प्रवृत्तिरिति अद्वकेऽनेषकेत्येव रूपम् । एषेति कृतषत्वनिर्देशादविकृतस्यैतच्छब्दस्य न भवति, यथा एता एव एतिकाः । सर्वादेरेवैतदो निर्देशो द्विसाहचर्यात्तेन इच्छतीत्येषिका इति इषेण कि निष्पन्ने नेत्वविकल्पः ॥ वौ सप्तमी, वर्तिका । वर्तते इति णके वर्तका, वर्तिका शकुनिः । भागुरी लोकायतस्य व्याख्या ॥ अस्य, क्षिपकादिर्येषान्ते, यच्च तच्च क्षिपकादयश्च ततो नसमासस्तेषाम् । अनित्क्याप्परे इः इत्यनुवर्तते । पृथग्योगाद्वेति निवृत्तम् । अन्यथाऽत्रापि विकल्पे स्विका स्वकेत्यादौ यादीदूत इति ह्रस्वे कृतेऽनेन विकल्पेनैवास्य सिद्धत्वात्स्वज्ञाजभनेत्यादीनां पृथगुपादानस्य वैययं स्यात् । जीवतादित्याशास्यमाना या सा जीवका “ आशिष्यकनि" त्यकन्प्रत्ययः । बहवः परिव्राजका यस्यां नगर्यामिति विग्रहः । अत्र विभक्त्यन्तादाप, अतो ककारास्परो नाऽऽप् , विभक्त्या व्यवहितत्वात् । क्षिपका प्रहरणविशेषः । ध्रुवकाऽऽवपनभाजनविशेषः ॥ नरिका च मामिका चेति विग्रहः । नरान्कायतीति नरिका आतो डोऽहावाम इति सूत्रेण डप्रत्ययः । अत्र ककारो न प्रत्ययावयत्र इति इत्वे प्राप्ते निपात्यते । ममेयं मामिका, युष्मदस्मदोरित्यनि ममकादेशे निपातनादित्वम् । अत्र मामिकशब्दो न संज्ञावाची तेन केवलमामकेत्यादिना न ङीः, किन्तु आदित्याप् ।।
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy