________________
३०९
चतुर्थपादः ] अवधिपरिष्कारसहितायाम् । ना, अतिप्रियखाका स्त्री । आप इत्येव ? मातृका ॥ स्वज्ञाऽजभस्त्राऽधातुत्ययकात् ॥ १०८ ॥ स्वज्ञाऽजभस्त्रेभ्यो धातुत्यवर्जस्य यौ यको ताभ्याञ्च परस्यापः स्थानेऽनित्क्याप्परे परत इकारो वा स्यात् । स्विका, स्वका । ज्ञिका, ज्ञका । अजिका, अजका । भस्त्रिका, त्वम् । सादेः सर्वशब्दस्य तु त्यादिसर्वादेरित्यनेनान्त्यस्वरात्प्रागकि सर्विका । प्रत्युदाहरणत्वाद्यमेव न तु द्वितीयं कात्पूर्वमापोऽभावेन व्यङ्गविकलत्वात् । दुर्गकेति, अनुकम्पिता दुर्गादेवी दुर्गका, ते लुग्वेति सूत्रेण देवीशब्दस्य लोपः । लुक्युत्तरपदस्य कप्न् प्रत्ययः,
यादीदूत इति ह्रस्वः । प्रियखटाक इत्यत्र नाप्परः कः । प्रियखटाकमतिक्रान्ता अतिप्रियखट्टाका, अत्राऽप्याप्परो न कः, लुप्तद्वितीयाविभक्तिव्यवहितत्वात् । मातुस्तुल्या मातृका, “ तस्य तुल्ये कः संज्ञाप्रतिकृत्योरि"ति कप्रत्ययः, जननीवचन एवात्र मातृशब्दः, न तु धान्यमाता मिमीत इति व्युत्पन्नो मातृशब्दः, तस्याऽपुंस इत्यनेनैव व्यावृत्तत्वात् , आबित्येवेत्यस्य प्रत्युदाहरणता न स्यात् ॥ धातुश्च त्यश्च धातुत्यो, न धातुत्यौ अधातुत्यौ, यश्च कश्च यकम् , अधातुत्ययोर्यकम् , स्वश्व ज्ञश्चाऽजश्च भवश्वाऽधातुत्ययकश्च तस्मात् । आपः, इत् , अनित्क्याप्परे इति पदानि सङ्गह्यन्ते । आरम्भसामर्थ्यादपुंस इति नानुवर्तते । कुत्सिता स्वा ज्ञातिः स्विका स्वका, कप्रत्ययः, न त्वक्प्रत्ययः ज्ञातिधनाख्यायामसर्वादित्वात् । यद्यपि स्वशब्दःस्वो ज्ञातावात्मनि क्लीबे त्रिष्यात्मीये धनेऽस्त्रियाम् । इति ज्ञातौ पुल्लिगस्तथापि कुत्सिताद्यर्थविषये ज्ञातावपि, अत एव पाठात्स्त्रीलिङ्गः । अथवा ज्ञातिरत्र स्त्रीरूपा विवक्षिता तेन योनिमन्नामत्वात्स्वशब्दस्य स्त्रीत्वम् , न विद्यते स्वा यस्या इति विग्रहे कपि अस्विका अस्वका इति रूपे भवतः । कपि निमित्तभूते विकल्पपक्षे अस्यायत्तदिति न, विकल्पसामर्थ्यात्, कचि तु नवाप इति इस्वे कृतेऽस्यायत्तदिति भव