________________
३०८
सिद्धहेमलघुवृत्ती [ द्वितीयाध्यायस्य पाकः, बहुलक्ष्मीकः, बहुब्रह्मबन्धूकः ॥ नवाऽऽपः ॥ १०६ ॥ आपः कचि परे इस्वो वा स्यात् । प्रियखटकः, प्रियखटाकः ॥ इचापुंसोऽनित्क्याप्परे ॥ १०७ ॥ आबेव परो यस्मान्न विभक्तिस्तस्मिन्ननितः प्रत्ययस्यावयवे के परेऽपुल्लिङ्गार्थाद्विहितस्यापस्थाने इहस्वौ वा स्याताम् । खट्टिका, खट्टका, खट्टाका । अपुंस इति किम् ! सर्विका । अनिदिति किम् ! दुर्गका । आप्पर इति किम् ! प्रियखट्टाको प्राप्तिरेव नास्ति, पूर्वसूत्रे च क इति, निरनुबन्धग्रहणे न सानुबन्ध. स्येति न्यायेन कचि परे तेन ह्रस्वाप्राप्तेः, तथा च कथं निषेध इति वाच्यम , अनेन प्रतिषेधेनैव पूर्वसूत्रे तन्यायप्रवृत्त्यभावज्ञापनात् ॥ नवा, आपः । कचीत्यनुवर्तते । पूर्वेण प्रतिषेधे प्राप्ते पक्षे ह्रस्वार्थमिदम् । प्रिया खटा यस्य सः, शेषाद्वेति कच्प्रत्ययेऽनेन वा ह्रस्वः । कजभावे प्रियखदः ॥ इद , च, न पुमानपुमांस्तस्मात् , न इदनुबन्धो यस्यासौ नित्, न निदनित्तस्य सम्बन्धि क् अनित्क् तस्मिन् , आबेव परो यस्मात्तस्मिन् । चकारो ह्रस्व इति समुचिनोति । अपु. ल्लिङ्गार्थादिति, ननु आबादेः स्त्रीवाचिशब्दादेव विधानात्, पुल्लिङ्गार्थादापोऽभावाद्विशेषणमिदं निरर्थकमिति चेन्न, तथाहि-शब्दस्य यत्प्रवृ. त्तिनिमित्तं तदेव पुंस्त्वस्य स्त्रीत्वस्य वाऽन्वयितावच्छेदकं भवति तादृशशब्दभिन्नश्शब्दोऽपुल्लिङ्गार्थ उच्यते । सर्वशब्दस्य च यत्प्रवृत्ति. निमित्तं पुंस्त्वस्यान्वयितावच्छेदकं तदेव च स्त्रीत्वस्यापीति नाऽपुल्लिङ्गार्थत्वमित्यदोषः । कुत्सिता खटा खटिका खट्टका, खटाका, उभयविकल्पे त्रैरूप्यम् । न च खटिकेत्यत्राकारेण व्यवधानात्, अप्परककाराभावेनेत्वानापत्तिर्दीऽपि " स्वरस्य विधे प्राविधावि"ति स्थानिवत्त्वा. व्यवधानमेवेति वाच्यम् , येन नाऽव्यवधानं तेन व्यवहितेऽपि स्यादि"ति न्यायेनाकारव्यवधानेऽपि प्रवृत्तेः । सर्वा नाम काचित्ततः स्वार्थे " यावादिभ्यः” कः, यादी त इति हस्वः, अस्यायत्तदिती.