SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ चतुर्थपादः ] अवचूरिपरिष्कारसहितायाम् । भार्यादिषु परेषु यथासङ्ख्यं ह्रस्वः स्यात् । मालभारी, उत्पलमालभारी, इषीकतूलम्, इष्टकचितम् ॥ गोण्या मेये ॥ १०३ ॥ गोण्या मानवृत्तेरुपचारान्मेयवृत्तेर्ह्रस्वः स्यात् । गोण्या मितो गोणिः ॥ ङयादीदूत के ॥ १०४ ॥ ङ्यादीदूदन्तानाश्च के प्रत्यये ह्रस्वः स्यात् । पट्टिका, सोमपिका, लक्ष्मिका, वधुका ॥ न कचि ॥ १०५ ॥ यादीदूतां कचि परे ह्रस्वो न स्यात् । बहुकुमारीकः, बहुकीलालह्रस्वः एतन्यायादुत्पलमालभारीत्यादौ न प्राप्नोति, अतोऽन्तेऽपीति करणं सफलम् ॥ गोण्या तृतीया, मेये । गोण्या मितो धान्यादिगणिः । विनैव तद्धितेन गोणीशब्दो गोणीप्रमितेऽर्थे व्रीह्यादावुपचाराद्वर्तते, यथा प्रस्थप्रमिते प्रस्थ इति, तस्य चायं ह्रस्वः । कृतेऽपि वा तद्धिते तलुकि अगोणीसूच्योरिति हस्वप्रतिषेधस्य समासे एव विज्ञानादत्र तदभावात् ह्रस्वार्थमिदं सूत्रम् ॥ ङीश्वाच्च ईच्च ऊच्च तस्य, के । कुत्सिताऽल्पाऽज्ञाता वा पट्टी पट्टिका । " प्राग्नित्यात्कबि"ति कप्प्रत्ययः । अत्र ईतः पृथग् ङीग्रहणं पुंवद्भावबाधनार्थम्, अन्यथा पट्टिकेत्यादि न सिद्ध्येत् । सोमपिकेत्यादावस्य सूत्रस्य दारदिकेत्यादौ च पिति पुंवद्भावस्य सावकाशत्वादत्र चोभयप्राप्तौ स्पर्द्धे इति परिभाषासूत्रेण पर एव पुंवद्भावः स्यात् । तथा के इति कप्प्रत्ययस्यैव ग्रहणम्, प्रत्ययाऽप्रत्यययोः प्रत्ययस्यैव ग्रहणमिति न्यायात्, तेन काकः पाक इत्यादौ न ह्रस्वः । सोमं पिबतीति सोमपा, कुत्सिदाद्यर्थे कप्रत्ययेऽनेन ह्रस्वे च कृते सोमपकः, ततः स्त्रीत्वविवक्षायामादित्यापि, अस्यायत्तदिति इकारः सोमपिका ॥ न कचि सप्तमी । पूर्वसूत्रं सम्पूर्णमनुवर्तते । बह्वयः कुमार्यो यस्य सः, "ऋन्नित्यादित” इति कच्प्रत्ययः, पूर्वसूत्रेण ह्रस्वे प्राप्तेऽनेन प्रतिषेधः । बहवः कीलालपा यस्य सः, बही लक्ष्मीर्यस्य, पुमनडुन्नाविति कच्प्रत्ययः । बह्नयो लक्ष्म्यो यस्य, इति विग्रहे तु " शेषाद्वे "ति कच् । न चात्र सर्वत्र ह्रस्वस्य ३०७
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy