________________
३०६
सिद्धहेमलघुवृत्ती [ द्वितीयाध्यायस्य स्याऽऽबन्तस्य चोत्तरपदे संज्ञायां हूस्वः स्याद्, बहुलम् । भरणिगुप्तः, भरणीगुप्तः । रेवतिमित्रः, रेवतीमित्रः । शिलवहम् , शिलावहम् । गङ्गमहः, गङ्गामहः ॥ त्वे ॥१०० ॥ ड्यावन्तस्य त्वे परे बहुलं ह्रस्वः स्यात् । रोहिणित्वम् , रोहिणीत्वम् । अजत्वम् , अजात्वम् ॥ भ्रुवोऽच कुंसकुटयोः ॥ १०१॥ अनयोः परयो वो इस्वोऽच्च स्यात् । अकुंसः, भ्रुकुंसः। प्रकुटिः, भ्रुकुटिः ॥ मालेषीकेष्टकस्यान्तेऽपि भारितूलचिते ॥ १०२ ॥ एषां केवलानामन्तस्थानाञ्च बहुलं ह्रस्वः । कचित्प्रवृत्तिः कचिदप्रवृत्तिः कचिद्विभाषा कचिदन्यदेव । विधेविधानं बहुधा समीक्ष्य चतुर्विधं बाहुलकं वदन्ति ॥ त्वे सप्तमी । ड्यापो बहुलं ह्रस्व इति पदान्यनुवर्तन्ते । पृथग्योगात् पदे इति निवृत्तम् । रोहिण्या भावो रोहिणित्वम् , अजाया भावोऽजत्वम् ॥ भ्रवः षष्ठी, अत् , च, कुंसश्च कुटिश्च तयोः। चकारेण हस्वस्य समुच्चयः । ध्रुवौ कुंसयति, कर्मणोऽण , अनेन ह्रस्वः । पक्षे अच्च भ्रकुंसः । भ्रवः कुटिभ्रुकुटिर्धकुटिः । भ्रूकुसभ्रूकुटिशब्दावपी. च्छन्त्यन्ये, अपरे च भृकुंसभृकुटिशब्दावपि ॥ माला च इपीका च इष्टका च तस्य, अन्ते, अपि, भारी च तूलश्च चितश्च तस्मिन् । ह्रस्व इति सम्बध्यते । एवमग्रेऽपि । मालां बिभर्तीत्येवंशीलो मालभारी, "अजातेः शीले" णिन् । उत्पलानां माला, तां बिभर्तीत्येवंशीलः । अन्तेऽपीत्यपिशब्देन गृहीतानां केवलानामित्यस्योदाहरणमाद्यम्, अन्ते वर्तमानानामित्यस्य च द्वितीयम् । इषीकायास्तूलमिषीकतूलम् । इष्टकाभिश्चितमिष्टकचितम् । अत्र मालादेर्नाम्नो विशेषणत्वेन तदन्त. लाभात्केवलस्य च व्यपदेशिवद्भावेन ह्रस्वसिद्धेरन्तग्रहणं व्यर्थ सत् , ग्रहणवता नाम्ना न तदन्त विधिः, साक्षानामग्रहणेन यस्य यत्कार्य विधीयते तत्कार्य तस्य नाम्नः समासादिना समुदायान्तस्य सतो न भवतीत्यर्थकं न्यायं सूचयति । एवञ्च मालेत्यस्य नामग्राहं विहितो