________________
चतुर्थपादः ]
अवधूरिपरिष्कारसहितायाम् ।
समूहो राजन्यकम्, एवं मानुष्यकम् || ङयादेगणस्याक्किपस्तद्वितलुक्यगोणीसूच्योः ॥ ९५ ॥ यादेः प्रत्ययस्य गौणस्याकिचन्तस्य तद्धितलुकि लुक् स्यात्, न तु गोणीसूच्योः । सप्तकुमारः, पञ्चेन्द्रः, पश्चयुवा, द्विपः । गौणस्येति किम् ? अवन्ती । अकिप इति किम् ? पञ्चकुमारी । अगोणीसूच्योरिति किम् ? पञ्चगोणिः, दशसूचिः ॥ गोश्चान्ते हस्वोऽनंशिसमासेयो बहुव्रीहौ ।। ९६ ।। गौणस्याक्किपो गोङर्याद्यन्तस्य चान्ते वर्त्तमानस्य ह्रस्वः स्यात्, न चेदसावंशिराज्ञोऽपत्यमिति, जातौ राज्ञ इति ये, 'अनोस्येये' इत्यनो लुगभावे राजन्यानां समूह इति विग्रहे गोत्रोक्षेत्यकञि, तद्धितयस्वरेऽनातीति यलोपे प्राप्तेऽनेन निषेधः ।। ङी आदिर्यस्य तस्य, गौणस्य, न विद्यते क्विप् यस्मिन् अक्किप् तस्य तद्धितस्य लुक् तस्मिन्, गोणी च सूची च गोणीसूच्यौ, ततो नञ्समासः, तयोः षष्ठी । लुगिति सम्बध्यते । सप्त कुमार्यो देवताऽस्येति 'देवतेत्यनेनाणि "द्विगोरनपत्ये" इति तल्लोपेऽनेन ङीलुकू, सप्तकुमारः । पञ्चेन्द्राण्यो देवताऽस्येति पचेन्द्रः पूर्ववत, ङीनिवृत्तौ च तत्सन्नियोगशिष्टयोरागमादेश योरपि निवृत्तिः, सन्नियोगशिष्टानामेकापायेऽन्यतरस्याप्यपाय इति न्यायात्, तेनाऽत्र ङीनिवृत्तौ वरुणेन्द्ररुद्रेति सूत्रेण ङीसन्नियोगशिष्टः आनपि निवृत्तः । एवं पश्च युवतिभिः क्रीतः पञ्चयुवा । द्वाभ्यां पङ्गभ्यां क्रीतो द्विपङ्गरित्यादि बोध्यम् । अवन्तेरपत्यं स्त्री अवन्ती, अत्र तद्धितप्रत्ययस्य कुन्त्यवन्तीत्यनेन लुक् ततो ङीः, अत्र तद्धितलुकि कृते ङेजतत्वादगौणत्वम् । कुमारीमिच्छति कुमारीयति, कुमारीयतीति क्विपू, तस्य लोपे सति कुमारी, ततः पञ्च कुमार्यौ देवताऽस्येति पञ्चकुमारी, देवतार्थे विहितस्य तद्धितस्य लुकि सत्यपि किपो लोपान्न ङीनिवृत्तिः । पञ्चभिर्गोणीभिः क्रीतः पञ्चगोणिः ॥ गोः षष्ठी, च, अन्ते, ह्रस्वः, अंशोऽस्यास्तीत्यंशी, अंशिना समासः, ईयसा बहुव्रीहिः, इयो बहुव्रीहिः, अंशिसमासश्च
३०३