SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ ३०४ सिद्धहेमलघुवृत्ती [द्वितीयाध्यायस्य समासान्त ईयस्वन्तबहुब्रीह्यन्तो वा। चित्रगुः, निष्कौशाम्बिः, अतिखटः, अतिब्रह्मबन्धुः । गौणस्येत्येव ? सुगौः, राजकुमारी । अकिप इत्येव ! प्रियगौः, प्रियकुमारी चैत्रः । गोश्चेति किम् ? अतितन्त्रीः । अन्त इति किम् 'गोकुलम् , कुमारी प्रियः, कन्यापुरम् । अंशिसमासादिवर्जनं किम् ? अर्द्धपिप्पली, बहुश्रेयसी ना ॥ क्लीवे ।। ९७ ॥ नपुंसकवृत्तेः स्वराईयोबहुव्रीहिश्च, न अंशिसमासे यो बहुव्रीहिस्तस्मिन् । चकारेण ङयादेर्गौणस्याकिप इति पूर्वसूत्रांशस्यानुकर्षः । प्रत्ययमात्रग्रहणे तदन्तग्रहणमिति सामर्थ्यलब्धन्यायेनोक्तं ङयाद्यन्तस्येति । चित्रा गावो यस्य चित्रगुः । कौशाम्ब्या निर्गतो निष्कौशाम्बिः । स्वामतिक्रान्तोऽतिखटः । ब्रह्मा बन्धुर्यस्याः सा ब्रह्मबन्धुः, उतोऽप्राणिनश्चेत्यू तामतिक्रान्तोऽतिब्रह्मबन्धुः, इत्यादिषु गोपदं याद्यन्तश्च पदं समासार्थेऽन्यपदार्थे विशेषणत्वेन गुणभूतमित्यनेन सूत्रेण ह्रस्वः । शोभना गौः सुगौः, राज्ञः कुमारी राजकुमारी, अत्र गोशब्दस्य कुमारीशब्दस्य च स्वघटितसमासार्थनिष्ठविशेष्यतानिरूपितप्रकारताश्रयपदार्थाबोधकत्वेन न गौणत्वम् । गामिच्छतीति गव्यति, गव्यतीति गौः विप् , प्रिया गौर्यस्य सः, एवं कुमारीमिच्छतीति कुमारीयति, ततः किपि कुमारी, प्रियश्चासौ कुमारी च । उभयत्र गोशब्दकुमारीशब्दार्थयो. रन्यपदार्थे चत्रे गुणीभूतत्वेऽपि गोशब्दकुमारीशब्दयोः किबन्त. त्वान्न हूस्वः । अर्द्ध पिप्पल्याः अर्धपिप्पली, अयं तत्पुरुषविशेषोंऽशिसमासस्ततोऽत्र न ह्रस्वः । यद्यप्यत्र ह्रस्वे कृतेऽपि, परलिङ्गो द्वन्द्वोऽशीति वचनापिप्पलीशब्दलिङ्गे " इतोऽत्यर्थादि"ति ड्यामर्धपिप्पलीति रूपसिद्धौ नाऽस्य प्रत्युदाहरणत्वं सम्भवति, तथापीतोऽत्यर्थादित्यनेन डेवैकल्पिकत्वादपिप्पलिरित्यपि स्यात् , तद्व्यावृत्त्यर्थमंशिसमासवर्जनम् । बह्वयः श्रेयस्यो यस्य सः बहुश्रेयसी, ईयसन्तबहुव्रीहित्वादत्र न ह्रस्वः ॥ क्लीवे हस्व इति वर्तते । ह्रस्व
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy