________________
३०२
सिद्धहेमलघुवृत्तौ। [द्वितीयाध्यायस्य साङ्काश्यीयति । व्यञ्जनादित्येव ? कारिकेयीयति ॥ तद्धितयस्वरेऽनाति ॥ ९२ ॥ व्यञ्जनात्परस्यापत्यस्य यो यादावादादिवर्जस्वरादौ च तद्धिते लुक् स्यात् । गार्ग्यः, गार्गकम् । आपत्यस्येत्येव ? काम्पील्यकः । तद्धितेति किम् ? वात्स्येन । अनातीति किम् ! गार्यायणः ।। बिल्वकीयादेरीयस्य ।। ९३ । नडादिस्था बिस्वादयस्तेषां कीयप्रत्ययान्तानामीयस्य तद्धितयस्वरे लुक् स्यात् । बैल्वकाः, वैणुकाः । बिल्वकीयादेरिति किम् ? नाडकीयः ॥ न राजन्यमनुः ष्ययोरके ॥ ९४ । अनयोर्योऽके परे लुन स्यात् । राजन्यानां व्यञ्जनात्परः ॥ यश्च स्वरश्च यस्वरम, तद्धितत्य यस्वरं तस्मिन् . न आदनात्तस्मिन् । व्यञ्जनादापत्यस्य यो लुगिति वर्तन्ते । गाये साधुर्गायः तत्र साधाविति यप्रत्ययेऽनेन यलोपः । गर्गाणां समूहो गार्गकम् , गोत्रोऽक्षेति अकञ् प्रत्ययः । अत्र गर्गस्यापत्येऽर्थे यजि कृते, तस्य च " योऽश्यापर्णान्तगोपवनादेरि "ति लुबि प्राप्ते "न प्राग्जितीये स्वरे" इत्यनेन निषेधः, ततश्च समूहार्थेऽकञ् परेऽनेन सूत्रेण यलोपः । कम्पीलेन निर्वृत्तं काम्पील्यं “सुपन्यादेयं” इति ध्यप्रत्ययः, काम्पील्ये भवः काम्पील्यकः, " प्रस्थपुरे" त्यकञ् , अत्र यकारो नाऽपत्यार्थे विहितः । वत्सस्थापत्यं वात्स्यस्तेन, अत्र यकारा. त्परस्तद्धितो नास्ति । गाायणः, अत्र यकारात्परो आवनण् प्रत्ययः वर्तते, स च आकारादिः, नातो यलोपः ॥ विल्वकीय आदिर्यस्यासौ तस्य, ईयस्य । लुक् तद्धितयस्वरे इत्यनुवर्तते, अनातीति तु नानुवर्तते, आतोऽसम्भवात् । बिल्वकीयादयो द्विधा, तत्र केचिन्नडादेः कीये सति, अपरे कुत्सिताद्यर्थकप्प्रत्ययान्तादीये सति, तत्र विवक्षितमाह-नडादिस्था इति । बिल्वाः सन्यस्यामिति बिल्वकीया नाम नदी, तस्यां भवा बैल्वकाः, भवेऽण् प्रत्ययस्तस्मिन्परे ईयस्य लुक् ।। न, राजन्यश्च मनुष्यश्च तयोः षष्ठी, अके । लुगिति वर्तते ।