SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ चतुर्थपाद: ] अवचूरिपरिष्कारसहितायाम् । 1 66 I लुक् स्यात् । सूरी, आगस्ती, सौरीयः, आगस्तीयः ॥ तिष्यपुष्ययोर्भाणि ।। ९० ।। भं नक्षत्रं तस्याणि परेऽनयोर्यो लुक् स्यात् । तैषी रात्रिः, पौषमहः । भाणीति किम् ? तैप्यश्वरुः ॥ आपत्यस्य ||९९ ॥ व्यञ्जनात्परस्यापत्यस्य यः क्ये च्वौ च परे लुक् स्यात् । गार्गीयति, गार्गीयते, गार्गाभूतः । आपत्यस्येति किम् ? लुगिति लुगनेन यलुक् । सूर्यस्येयमित्यणि ड्यां सौरीति वा । अगस्त्यस्येय मागस्ती, पूर्ववत् । सूर्यो देवताऽस्येति सौर्य:, सौर्य - स्यायं सौरीयः, एत्रमागस्तीयः, सौरीयागस्तीयशब्दयोः प्रथमं देवतार्थेऽणू, पश्चादिदमर्थे ईयः, अवर्णेवर्णस्येत्यलोपः, अनेन यलोपः ॥ तिष्यश्च पुष्यश्च तयोः, भेऽण् भाण् तस्मिन् । यो व्यञ्जनालुगिति वर्तन्ते । नक्षत्रसम्बन्धि अण् च चन्द्रयुक्तादिति सूत्रविहितः, “भर्तुसन्ध्यादेरणि "ति सूत्रविहितश्च । तिष्येण चन्द्रयुक्तेन युक्ता तैषी रात्रिः । तिष्ये भवस्तैषः शिशुः । एवं पुष्येण चन्द्रयुक्तेन युक्तः पापमहः । तिष्यो देवताऽस्य तैष्यश्चरुः अत्र देवतार्थेऽण् विहितः न तु नक्षत्रे ॥ अपत्ये भव आपत्यस्तस्य, क्यश्च च्विश्च क्यच्ची तयोः । व्यञ्जनात्, यः लुगित्यनुवर्तन्ते । गार्ग्यमिच्छति गार्गीयति, अमान्ययात्क्यन्, वर्तमाने तिव्, क्यनीत्यवर्णान्तस्य ई:, ततः " येन नाव्यवधानं तेन व्यवहितेऽपि स्यादिति न्यायेन ईकारादिव्यवधानेऽपि अनेन सूत्रेण क्ये परे लोपः । गार्ग्य इत्र आचरति गार्गांयते, क्यङिति क्यडू, वर्तमाने ते, दीर्घवियङीति दीर्घः, अनेन यलोपः । अगार्ग्यो गार्यो भूतो गार्गीभूतः, कृभ्वस्तिभ्यामिति च्विः, "ईवावर्णस्ये " त्यन्तस्य ईः, अनेन यलोपः । सङ्काशेन निर्वृत्तं साङ्काश्यं " सुपन्ध्यादे " इति व्यः प्रत्ययः । साङ्काश्यमिच्छति साङ्काश्यीयति, अत्र कारो नाऽपत्ये विहित इति न तल्लोपः । कारिकेयी मिच्छति कारि के.. ययति, अत्र यण् सम्बन्धिनो यकारस्यापत्यत्वेऽपि नासौ यकारों 1 ३०१
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy