________________
३००
सिद्धहेमलघुवृत्तौ। [द्वितीयाध्यायस्य ॥ ८७ ॥ मत्स्यस्य यो ङ्यां लुक् स्यात् । मत्सी ।। व्यञ्जनात्त. द्वितस्य ॥ ८८ ।। व्यञ्जनात्परस्य तद्धितस्य यो ड्या लुक् स्यात् । मनुषी । व्यञ्जनादिति किम् ? कारिकेयी। तद्धितस्येति किम् ? वैश्यी॥ सूर्यागस्त्ययोरीये च ॥ ८९ ॥ अनयोर्यो ड्यामीये च प्रत्यये, ततश्चानेन सूत्रेण यलुक् । ननु पूर्वसूत्रादत्र ब्यामित्यनुवर्तते । तच्च पदं सप्तम्यन्तं ततश्च सप्तम्या पूर्वस्येति परिभाषासूत्रस्य प्रवृत्तिः, एवमनन्तरस्यैव विधिनिषेधो वेति न्यायसहकारेण डीप्रत्ययाव्यवहितपूर्ववर्तिनो मत्स्यशब्दसम्बन्धियकारस्य लुग्भवतीत्यर्थः, तथा च मत्सीत्यत्र यकारस्य लुग् न स्यात् , स्वरस्य परे प्राविधौ स्वरस्यादेशः परनिमित्तकः पूर्वस्य विधौ कर्तव्ये स्थानीव भवतीत्यर्थ केन परिभाषासूत्रेण स्थानिवद्भावेन ब्यव्यवहितपूर्वस्य यकारस्याभावादिति चेन्मैवम् , अनेनैव वचनेनैकवर्णव्यवधानेऽपि यकारलोपाश्रयणात् । न चैवं मत्स्यस्येयमिति विग्रहे तस्येदमित्यणि मत्स्याकारलोपे अणन्तत्वाद् ङयां 'अस्य ड्यामि'त्यलोपे आदिवृद्धावनेन सूत्रेण यलोपे मात्सीति रूपं न स्यात् , अनिमित्ताकारङीनिमित्ताकारलोपयोः स्थानिवत्त्वेन यलोपप्रसत्यभावादिति वाच्यम् । “न सन्धिङीयक्किद्विदीर्घास द्विधावस्क्ल. की"ति परिभाषासूत्रेण डीविधौ स्थानिवद्भावप्रतिषेधात् ।। व्यञ्जनात , तद्धितस्य । घ्यः ङयां लुगिति पदान्यनुवर्तन्ते । मनोरपत्यं स्त्रीति विग्रहे “ मनोर्याणौ पश्चान्त" इति मनुष्ये जाते डोः, ततश्चाण्लोपेऽस्य ड्यामिति लुकि अनेन यलुक् मनुषी । कारिकाया अपत्यं कारिकेयी, एयण्प्रत्ययो ङीश्च । अत्र यकारस्य पूर्व व्यञ्जनं नास्ति, किन्त्वेकारः, नातो यलोपः वैश्यस्य भार्या वैश्यी, अत्र यकारो न तद्धितसम्बन्धी किन्त्वौणादिकः ॥ सूर्यश्चागस्त्यश्च तयोः, ईये सप्तमी, च । चकारेण के समुच्चयः, यो व्यञ्जनाल्लुगित्यनुवर्तन्ते । सूर्यस्य भार्या मानुषी सूरी, धवाद्योगादिति डोः, अस्य ड्यां