SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ चतुर्थेपादः ] अवचूरिपरिष्कारसंहितायाम् । २९९ षगन्ध्यापुत्रकुलम् ॥ बन्धौ बहुव्रीहौ ॥ ८४ ॥ मुख्याऽऽबन्तस्य ध्यो बन्धौ केवले परे बहुव्रीहावीच् स्यात् । कारीषगन्धीबन्धुः । केवल इत्येव ! कारीषगन्ध्यावन्धुकुलम् । मुख्य इत्येव ? अतिकारीषगन्ध्याबन्धुः ॥ मातमातृमातृके वा ।। ८५ ॥ मुख्याऽऽबन्तस्य प्यो मातादिषु केवलेषु परेषु बहुव्रीहाचीज्वा स्यात् । कारीपगन्धीमातः, कारीषगन्ध्यामातः । कारीषगन्धीमाता, कारीषगन्ध्यामाता । कारीपगन्धीमातृकः, कारीषगन्ध्यामातृकः ॥ अस्य ड्यां लक् ॥ ८६ ॥ ङ्यां परेऽस्य लुक् स्यात् । मद्रचरी ॥ मत्स्यस्य यः षेण सन्निधापिततस्योत्तरपदस्य पुत्रपतिशब्दाभ्यां विशेषणाद्विशेषणेन च तदन्तविधेर्भावात्पुत्रपतिशब्दान्तयोरुत्तरपदयोरीच् भवतीत्यर्थस्य प्रसङ्गेन केवलग्रहणाभावेऽत्र ईजादेशस्य दुर्वारत्वात् ॥ बन्धौ बहु. ब्रीहौ । ध्या केवलयोरीजिति वर्तन्ते । कारीपगन्ध्या बन्धुर्यस्य । मुख्य इत्येवेति, कारीषगन्ध्यामतिक्रान्ता, अतिकारीषगन्ध्या सा बन्धुर्यस्य । अत्र कारीषगन्ध्याशब्दस्याति क्रान्तशब्दार्थ प्रति विशेषणत्वेन गौणत्वान्न ईच् ॥ मातश्व माता च मातृकश्च तस्मिन् , वा । ध्या केवलयोरीच् बहुव्रीहाविति पदान्यनुवर्तन्ते । उक्तसूत्रद्वये विशेष्यानुगुणं केवलशब्दस्य वचनविपरिणामेनाऽन्वयः कार्यः । अत्र मातेति निर्देशात् , मातुर्मातः पुत्रेऽहं सिनाऽऽमध्ये इति सूत्रेण निर्दिष्टमर्थमन्तरेणापि पक्षे माता आदेशः, अन्यथा मातृशब्देनैव गतत्वान्मातशब्दोपादानमनर्थकं स्यात्, मातृमातृकशब्दयोश्च पृथगुपादानादृदन्तलक्षणः कच्प्रत्ययोऽपि विकल्प्यते । शिष्टं स्पष्टम् ।। अस्य, ड्याम् , लुक् । मद्रेषु देशेषु चरतीति मद्रचरी । चरेष्ट इति टप्रत्ययः, अणेजेयेकणिति ड्यामनेन सूत्रेणाऽकारलोपः ।। मत्स्यस्य, यः षष्टी । ड्यां लुगिति सम्वध्यते । मत्स्यस्य स्त्री मत्सी । माद्यति जलेनेति मत्स्यः, धवाद्योगादिति ङीः, अस्य ड्यामित्यकारस्य लुक्,
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy