________________
२९८
सिद्धहेमलघुवृत्तौ । द्वितीयाध्यायस्या मुग्रया, सात्यमुग्री। काण्ठेविद्धया, काण्ठेविद्धी ॥ ष्या पुत्र पत्योः केवलयोरीच तत्पुरुषे ।। ८३ ।। मुख्याऽऽअन्तस्य ष्यः पुत्रपत्योः केवलयोः परयोस्तत्पुरुष समासे ईच् स्यात् । कारीषगन्धीपुत्रः, कारी. षगन्धीपतिः । येति किम् ? इभ्यापुत्रः । केवलयोरिति किम् ! कारीतस्यापत्यं स्त्री कण्ठेविद्धी ॥ ध्या प्रथमा, पुत्रश्च पतिश्च तयोः, केवलयोः, ईच् प्रथमा, तत्पुरुषे । कारीषगन्ध्यायाः पुत्रः पतिर्वा, अनेन सर्वस्याः घ्याया ईचादेशः । अत्र घ्या ईञ् भवतीत्यभेदनिर्देशः कृतः सर्वादेशार्थम् । सोऽयमभेदनिर्देशो नाऽनुषन्धकृतान्यसारूप्याने कस्वरत्यानेकवर्णत्वानीति न्यायं ज्ञापयति । तदर्थश्वानुबन्धवशादसारूप्यमनेकस्वरत्वमनेकवर्णत्वञ्च न स्युरिति । अन्यथा ईचोऽनेकवर्णत्वाध्याया ईजिति भेदनिर्देशे कृतेऽपि 'अनेकवर्णः सर्वस्येति परिभाषासूत्रेणेचः सर्वादेशत्वं भवत्येवेति तदर्थोऽभेदनिर्देशो व्यर्थः स्यात् । 'वेदूतोऽनव्ययम्बृदीच ङीयुवः पदे' इत्यत्र ईचः प्रतिषेधान्न ह्रस्वः । इभ्यायाः पुत्र इभ्यापुत्रः। अत्रेभ्यशब्दो न ध्यान्तः, किन्तु इभमहतीति विग्रहे दण्डादिभ्यो य इति यः । पुत्रस्य कुलं पुत्रकुलम् , कारीषगन्ध्यायाः पुत्रकुलं कारीषगन्ध्यापुत्रकुलम् । केवलग्रहणाभावे सूत्रे पुत्रपत्योरित्यस्यौपश्लेषिकेऽधिकरणे सप्तमीविभक्तो अत्रापि व्याया ईच् प्रसङ्गः, केवलपुत्रशब्देन ध्यान्तस्य यथा सम्बन्धोऽस्ति, तथा पुत्रकुलेल्युत्तरपदादिभूतपुत्रशब्देनापि, अत: केवलग्रहणं कृतम् । न च तत्पुरुषग्रहणाद्यस्य तत्पुरुषस्य प्यान्तोऽवयवस्तस्यैव यौ पुत्रपतीतिशब्दो अवयवौ न तत्पुरुषान्तरस्य तयोः ध्यायाः ईज् भवतीति प्रत्यासत्याऽर्थकरणे प्रकृते प्रत्युदाहरणे पुत्रशब्दस्य ध्यान्तपदघटिततत्पुरुषस्यावयवत्वाभावेन केवल ग्रहणाभावेऽपि नेचः प्रसङ्गः, पुत्रस्य कुलमिति तत्पुरुषान्तरस्यैव हि पुत्रशब्दोऽवयवः । प्यान्तपदघटिततत्पुरुषस्य तु पुत्रकुलमिति पदमेवावयव इति वाच्यम्, तथा सति तत्पुरु