________________
सिद्धहेमलघुवृत्तौ
[ द्वितीयाध्यायस्य
अहिच्छत्री । अणिन इति किम् ? आर्तभागी । बहुस्वरेति किम् ? दाक्षी । गुरूपान्त्यस्येति किम् ? औपगवी । अणिजन्तस्य सतो बहुस्वरादिविशेषणं किम् ? दौवार्या, अडुलोम्या ॥ कुलाख्यानाम् ॥ ७९ ॥ कुलमाख्यायते यकाभिः तासामनार्षवृद्धाणि - गन्धिस्तस्यापत्यं पौत्रादि स्त्री कारीषगन्ध्या, "ङसोऽपत्ये ऽणि " त्यणि अणन्तत्वादनेनान्तस्य ध्यादेशः, षकारः इत्, आदित्याप् । शब्दशक्तिस्वाभाव्याध्यादेशः आवन्तसहित एव स्त्रीलिङ्गमभिव्यनक्ति । न चाणः ध्यादेशादणञेयेकणित्यणन्तलक्षणो ङी: स्यादिति वाच्यम्, तत्राऽणः स्वरूपस्थस्यैव ग्रहणात्, व्याख्यानतो विशेषार्थप्रतिपत्तिरिति न्यायात्, तत्र सूत्रे तथैव व्याख्यानात्, इह चाऽणः व्यरूपीभवनान्न स्वरूपस्थत्वमिति । बलाकाया अपत्यं स्त्रीति विग्रहे बाह्वादिभ्य इति इञि इञन्तत्वादनेन ष्यः, आदित्यापू । अनार्ष इति किमिति, वसिष्ठस्यापत्यं स्त्री ऋषिवृष्ण्यन्धकेत्यणू, अणेने ये कणिति ङीः । वृद्ध इति किमिति, अहिच्छत्रे जाता जातार्थेऽण्, ततो ङीः । अणि इति किमिति, ऋतः प्राप्तो भगः पुण्यं येन, अथवा ऋतेन सत्येन भज्यते वा ऋतभागः, ऋतभागस्यापत्यं बिदादेर्बुद्धे इत्यञ् प्रत्ययः, ङीः । बिदादिभ्य इति सूत्रेण विहितः प्रत्ययोऽनार्षः, ऋषिवृष्ण्यन्धके इति विहितः प्रत्यय आर्ष इतीह रूढः, अन्यथा ऋतभागस्य ऋषिवचनत्वेनानात्वाभावादणिनः प्रत्युदाहरणं न सङ्गच्छेत । बहुस्वरेति किमिति, दक्षस्यापत्यं “अत इञि " ति इन्, नुर्जातेङः । गुरूपान्त्यस्येति किमिति, उपगोरपत्यं स्त्री औपगवी । दौवार्येति, द्वारस्यापत्यं पौत्रादि स्त्री, अत इञितीञ् प्रत्यमः, दौवार्या, एवमुडुलोम्नोऽपत्यं स्त्री औडुलोम्या, अत्र इञः पूर्वमबहुस्वरत्वेऽगुरूपान्त्यत्वे च सत्यपि इञि सति बहुस्वरत्वाद् गुरूपान्त्यत्वाच्च तदा घ्यादेशार्थमणिजन्तस्यैव बहुस्वरादिविशेषणं कृतम् ।। कुलमाख्यायते याभिस्तास्तासामू । अनार्षे
1
1
२९६