SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ २९४ सिद्धहेमलघुवृत्तौ [ द्वितीयाध्यायस्य हनुः ॥ वान्तकद्रुकमण्डलोर्नानि ॥ ७४ ॥ बाहृन्तात्क - द्रुकमण्डलुभ्याञ्च संज्ञायां स्त्रियामूङ् स्यात् । भद्रबाहूः, कद्रः, कमण्डलुः । नाम्नीति किम् ? वृत्तबाहुः || उपमानसहित संहितसहशफवामलक्ष्मणाद्यूरोः ॥ ७५ ॥ एतत्पूर्वपदादूरोः स्त्रियामूङ् स्यात् । करभोरूः सहितोरूः, संहितोरूः सहोरूः, शफोरूः, वामोरूः, लक्ष्मणोरूः । उपमानादेरिति किम् ? पीनोरुः ॥ नारीपङ्गश्वश्रू' इत्यन्न श्वश्रूरिति दीर्घनिपातार्थम् ॥ बाहुरन्ते यस्यासौ बाह्वन्तः, कद्रुश्च कमण्डलुश्च तस्मात्, नाम्नि । ऊङिति सम्बध्यते । अन्तग्रहणं तदन्तविध्यर्थमन्यथा केवलाद्वाहुशब्दात्स्त्री संज्ञायां देवदत्तादिशब्दवदूङ् प्रसज्येत । भद्रौ बाहू यस्याः सा भद्रबाहूः, कद्रूः, कमण्डलूः एताः संज्ञाः । वृत्तौ बाहू अस्याः सा वृत्तबाहुः || उपमानश्च सहितश्च संहितश्च सहश्च शफश्च वामश्च लक्ष्मणश्च तस्मात्, ऊरोः षष्ठी । उपमानपदेनोपमावाचिशब्दो ग्राह्यः । करभ इवोरू यस्याः सा करभोरूः । ननु सहशब्दग्रहणं व्यर्थं सर्वस्योरुमत्त्वेन सहशब्दप्रयोगस्य तत्समभिव्याहारे व्यर्थत्वेन सहरिति प्रयोगस्यैवाभावादिति चेन्न, सहशब्दस्य सङ्किष्यत्यर्थस्यान्युत्पन्नस्य दन्त्यादेरत्र ग्रहणात् सहितोरूरिति तु हितेन सह सहितौ ऊरू यस्याः सा इति । शंफौ एव ऊरूर्यस्याः सा, शफशब्दप्रवृत्तिनिमित्तस्य ऊरूपदार्थे आरोपात, शफौ खुरौ ताविव संश्लिष्टत्वादूरू अपि शफौ उच्येते । एवञ्च समासस्योपमानोपमेयभावाबोधकत्वेन नोपमानपूर्वपदनिमित्तः समासः । आरोपे तूपमानोपमेयभावो निमि. तम् । यद्यप्यमरसिंहेन शर्फ कीबे खुरः पुमानिति शफशब्दस्य क्लीबत्वमुक्तं तथापि पुंस्त्वमपि प्रामाणिकमेव, शफः खुरे गवादीनां मूले विपिनामपीति श्री हेमचन्द्रकोशात् । लक्षणोरूरिति पाणिनीये || "
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy