________________
चतुर्थपादः ] अवत्रिपरिष्कारसहितायाम् । २९३ स्यात् । कुन्ती, दाक्षी । इत इत्येव ? दरत् । मुरिति किम् ! तित्तिरिः। जातेरिति किम् ? निष्कौशाम्बिः ॥ उतोऽप्राणिनश्वाऽयुरज्वादिभ्यः ऊङ् ॥ ७३ ॥ उदन्तान्नृजातेरप्राणिजातिवाचिनः स्त्रियामूङ् स्यात्, न तु य्वन्ताद्रज्वादिभ्यश्च । कुरूः, ब्रह्मबन्धः, अलाबूः, कर्कन्धः । उत इति किम् ! वधूः । अप्राणिनश्चेति किम् ! भाखुः । जातेरित्येव ! पटुः स्त्री । युरज्वादिवर्जनं किम् ! अध्वर्युः स्त्री, रज्जुः,
शले इति न्यप्रत्ययः, कुन्त्यवतेरिति लुबनेन डीः, कुन्ती। एवं दक्षस्यापत्यं स्त्री दाक्षी । दरतो राज्ञोऽपत्यं स्त्री, पुरुमगधस्येति विहितस्याणः, नेरळ्यण इत्यनेन लोपः, दरत् । अस्य गोत्रश्च चरणैस्सहेति जातित्वम् ॥ उतः पञ्चमी, न प्राण्यप्राणी तस्मात् , च, रज्जुरादिर्येषान्ते रजवादयः, युश्च रज्वादयश्च युरज्वादयः, न युरज्वादयोऽयु. रज्वादयस्तेभ्यः, ऊङ् । नु तेरिति चशब्देनानुकृष्यते । कुरोरपत्यं स्रो कुरूः, दुनादिति विहितस्य यस्य कुरोर्वा इति लुपि, गोत्रश्च चरणैस्सहेति जातित्वादूङ् । ब्रह्मा बन्धुरस्याः सा, अत्र लिङ्गानाञ्च न सर्वभागिति जातित्वम् । अत्र उङः पूर्व शेषाद्वेति कच्प्रत्ययः परोऽपि न भवति,तत्र समासप्रकरणे बहुलाधिकारात् ,अथवा अश्चासौ ऊङ्चेति विगृह्य द्विविधानादन्यः प्रत्ययो न भवतीति कैयटमतम् । वृत्तस्वाध्यायहीनायां ब्राह्मणजातावयं वर्तते । नृजातेरुदाहरणद्वयम् । अप्राणिजातिवाचिन उदाहरणम् , अलावूः कर्कन्धूरिति । नबो लातेर्नलुक् चेत्युणादिसूत्रेण ऊकारान्तोऽलाबूशब्दः । कृगः कादिरिति सूत्रेण ऊकारान्तः कर्कन्धूशब्दः । त्रीत्वविवक्षायाश्चाऽलावू:, कर्कन्धूः, अला. बूस्तुम्बरुः, कर्कन्धूर्बदरीत्यर्थः । उत इत्यप्राणिजातिवाचिना न सम्ब. ध्यते, रजवादिपर्युदासादुवर्णान्तेभ्य एव ऊङो भावादलाबूः कर्कन्धः । अध्वर्युः स्त्री चरणत्वाजातिः, अत्र उडित्यकृत्वा ऊविधानं 'सखी