SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ २९० सिद्धहेमलघुवृत्तौ । द्वितीयाध्यायस्य एभ्यो धववाचिभ्यो योगात्स्त्रीवृत्तिभ्यो ङीः स्यात् , ङीयोगे आन्चान्तः। वरुणानी, इन्द्राणी, रुद्राणी, भवानी, शर्वाणी, मृडानी ॥ मातु. लाचार्योपाध्यायाद्वा ॥ ६३ ॥ एभ्यो धववाचिभ्यो योगास्त्रीवृत्तिभ्यो ङीः स्यात् , ङीयोगे चानन्तो वा । मातुलानी, मातुली । आचार्यानी, आचार्थी । उपाध्यायानी, उपाध्यायी ॥ सूर्यादेवतायां वा ॥ ६४ ।। सूर्याद्धववाचिनो योगाद्देवतास्त्रीवृत्ती; स्यात्, डीयोगे चानन्तः । सूर्याणी, सूर्या । देवतायामिति किम् ? मानुषी सूरी ॥ यवयवनारण्यहिमाद्दोषलिप्युरुमहत्त्वे ॥ ६५ ॥ एभ्यो यथासङ्ख्यं दोषादौ गम्ये स्त्रियां ङीः स्यात् , ङीयोगे चानन्तः । तस्मात् , आन्प्रथमा, च, अन्तः प्रथमा। धवाद्योगादित्यपि सम्बध्यते, अन्तशब्दः आगमपर्यायोऽन्यथाऽऽनपि भिन्नः प्रत्ययः स्यात्, आदे. शत्वे वा, अनेकवर्णः सर्वस्येति सर्वस्य स्यात् । वरुणस्य भार्याऽनेन डीरन्तस्याऽऽन्वरुणानी॥ मातुलश्वाचार्यश्वोपाध्यायश्च तस्मात्। धवाद्योगादित्यनुवर्तते, आन्चान्तश्च । आचार्यांनीत्यत्र क्षुभ्नादित्वात् णत्वाभावः । पाणिनीये आचार्याति न भवति, किन्तु धवयोगाभावे आचार्या, स्वयं व्याख्यात्री । धवयोगे केचित् मातुलाचार्या उपाध्याया इत्यपीच्छन्ति, तत्सिद्धये डीरिति प्रत्ययः विकल्पनीयः ॥ सूर्यात् , देवतायाम् , वा । धवाद्योगादान्चान्त इति पदान्यनुवर्तन्ते । सूर्यस्य भार्या सूर्याणी, पक्षे आवेव सूर्या । सूर्यस्याऽऽदित्यस्य मनुष्यस्य वा मानुषी भार्या सूरी, सूर्यागस्त्ययोरिति यलोपो धवाद्योगादिति ङीः ।। यवश्च यवनश्चारण्यश्च हिमश्च तस्मात् , दोषश्च लिपिश्चोरुश्च महत्वञ्च तस्मिन् । आन्चान्त इत्यनुवर्तते, धवाद्योगादिति निवृत्तं दोषाद्यर्थ. विशेषग्रहणात् । दुष्टो यवो यवानी जात्यन्तरमेवेदम् । अयमेव तस्य दोषो यद् यवत्वजातिविरहेऽपि तदाकारानुकरणम् । यवनानां लिपियवनानी, तस्येदमित्यस्य बाधको ङीः । उरु अरण्यमरण्यानी,
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy