SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ चतुर्थपादः ] अवत्रिपरिष्कारसहितायाम् । २९१ यवानी, यवनानी लिपिः, अरण्यानी, हिमानी ॥ अर्यक्षत्रियाद्वा ॥ ६६ ॥ आभ्यां स्त्रियां डीवा स्यात् , डीयोगे चानन्तः । अर्याणी, अर्या । क्षत्रियाणी, क्षत्रिया ॥ यत्रो डायन्च वा ॥ ६७ ॥ यत्रन्तालियां डीः स्यात्, डीयोगे च डायनन्तो वा स्यात् । गार्गी, गाायणी ॥ लोहितादिशकलान्तात् ॥ ६८॥ लोहितादेः शकलान्तात् यजन्तास्त्रियां डीः स्यात् , तद्योगे च डायनन्तः । लौहित्यायनी, शाकल्यायनी " षावटाद्वा ॥ ६१॥ षान्तादवटाच्च यजमहद्धिमं हिमानी॥ अर्यश्च क्षत्रियश्च तस्मात् , वा। आन्चान्त इत्यनु. वर्तते । स्वामिवैश्येऽर्य इत्यर्य इति रूपम् , स्त्रीत्वविवक्षायामर्याणी, अर्या स्वामिनी वैश्या वेत्यर्थः, अधवयोगेऽयं विधिः, एवं क्षत्रियाणी क्षत्रिया। धवयोगे तु विशेषविधानात्पूर्वण नित्यं डोरेव । अर्यस्य भार्याऽर्थी, क्षत्रियस्य भार्या क्षत्रियी। हैमकोशेऽपि, 'क्षत्रिय्यर्या च शूद्यपि, तथा अर्यार्याग्यो पुनः समे' इत्युक्तत्वादर्येति सङ्गच्छते । अत्रामरस्य सङ्ग्रहःअर्याणी स्वयमर्या स्यात्, क्षत्रिया क्षत्रियाण्यपि । उपाध्यायाप्युपाध्यायी, स्यादाचार्यापि च स्वतः ॥ आचार्याणी तु पुंयोगे, स्यादी क्षत्रियी तथा। इति । कचिदार्यक्षत्रियाद्वेति पाठो दृश्यते ॥ यत्रः पञ्चमी, डायन्, च, वा । अन्त इति वर्तते । श्रुतस्य डायन एव वाशब्देन सम्बन्धः, नानुमितेन डीप्रत्ययेन, श्रुतानुमितयोः श्रौतो विधिर्बलीयानिति न्यायात् । गर्गस्यापत्यं स्त्रीति विग्रहे गर्गादेर्यनिति यञ्, अनेन डोर्डायन्चान्तः, आदिवृद्धिर्गाायणी, डायनोऽभावे व्यञ्जनाचद्धितस्येति यलोपो गार्गी ॥ लोहित आदिर्यस्यासौ, शकलोऽन्तो यस्यासौ शकलान्तः, लोहिताविश्व शकलान्तश्च तस्मात् । वारहितं पूर्वसूत्रमनुवर्तते । लोहितस्यापत्यं स्त्री, गर्गादेयम्, “वृद्धिः स्वरे,” अनेन डी यन् च, लौहित्यायनी, एवं शाकल्यायनी ॥ पश्चावटश्च तस्मात्, वा । अनुवृत्तिः पूर्ववत्, भिडायनोरुभयोरनुवर्तनात्, प्राधान्याद् डीप्रत्ययेनैव वाशब्दस्य सम्भवो न तु तत्संयोग
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy