________________
चतुर्थपादः ] अवरिपरिष्कारसहितायाम् । २८९ धवादिति किम् ! प्रसूता । योगादिति किम् ? देवदत्तो धवः, देवदत्ता स्त्री स्वतः । अपालकान्तादिति किम् ? गोपालकस्य स्त्री गोपालिका । आदित्येव ! सहिष्णोः स्त्री सहिष्णुः ॥ पूतक्रतुवृषाकप्यग्निकु. सितकुसिदादै च ॥ ६०॥ एभ्यो धववाचिभ्यस्तद्योगात्स्त्रीवृत्ति. भ्यो ङीः स्यात् , ङीयोगे चैषामैरन्तस्य । पूतकतायी, वृषाकपायी, अमायी, कुसितायी, कुसिदायी ॥ मनोरौ च वा ॥ ६१ ॥ धववृत्तेर्मनोर्योगात्स्त्रीवृत्तेर्जीर्वा स्यात् , ङीयोगे चास्य औरैश्चान्तस्य । मनावी, मनायी, मनुः ॥ वरुणेन्द्ररुद्रभवशमृडादान्चान्तः ॥६२॥ भार्यायाम् । यश्च शब्दो धवयोगाखियां वर्तते स लाक्षणिक उच्यते, प्रवृत्तिनिमित्तस्य तत्रारोपादभेदोपचाराद्वा, यदा तु मुख्यस्तदापि तस्येदमित्यणि, अणियेकणिति सूत्रेण डीप्रत्यये गौपी प्राष्ठीति भवति । योगः सम्बन्धः, स च दम्पत्तिभावो अन्यजनकभावो वा । प्रसूतेति, अयं हि जातप्रसवामाह, स च प्रसवः सम्बन्धनिमित्तस्तदन्तरेण प्रसवाभावात् , न च प्रसवशब्दो धववाचि नाम, ततो न डीः । देवदत्ता स्वत इति, अयं हि संज्ञाशब्दो स्वभावास्त्रियमाह, न तु धवयोगात् ।। पूतक्रतुश्च वृषाकपिश्चाग्निश्च कुसितश्च कुसिदश्च तस्मात् , ऐ, च॥धवाद्योगादिति वर्तते, तेन पूताः क्रतवो ग्या सेत्यर्थे पूतक्रतुर्नात्र ङीः । पूतक्रतोर्भार्या पूतक्रतायी, एवमग्रे । कुसिदशब्दो ह्रस्वमध्यो न तु दीर्घमध्यः । एयेऽनायीति निर्देशादैकारोऽन्तादेशो विज्ञेयो न तु प्रत्ययः । वृषो धर्मः, कपिर्वराहस्ताद्रूप्यात्पृषो. दरादित्वाद्दीघे वृषाकपिस्ततो धवयोगे वृषाकपायी, कुसितकुसिदौ ऋषी ॥ मनोः पञ्चमी, औ, च, वा । मनोर्भार्या मनावी मनायी, विकल्पद्वये त्रैरूप्यम् , वाशब्दोऽनुवृत्त्यागतेन ङीप्रत्ययेन सम्बध्यते, न तु श्रुतेनौकारेणाऽन्यथा ङीप्रत्ययस्य नित्यत्वापत्त्या मनावी मनायी मन्वीत्यनिष्टं त्रैरूप्यं स्यात् ॥ वरुणश्वेन्द्रश्च रुद्रश्च भवश्व शर्वश्च मृडश्च