SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ सिद्धमलघुवृत्तौ [ द्वितीयाध्यायस्य शङ्खपुष्पी । सदादिवर्जनं किम् ? सत्पुष्पा, काण्डपुष्पा, प्रान्तपुष्पा, शतपुष्पा, एकपुष्पा, प्राकृपुष्पा || असम्भनाजिनैकशणपिण्डात्फलात् ।। ५७ ।। समादिवर्जेभ्यो यः फलशब्दस्तदन्ताज्जातेः स्त्रियां ङीः स्यात् । दासीफली । समादिप्रतिषेधः किम् ? सम्फला, भस्त्रफला, अजिनफला, एकफला, शणफला, पिण्डफला ओषधिः ॥ अननो मूलात् ॥ ५८ ॥ नञ् वर्जात्परो यो मूलशब्दस्तदन्ताज्जातेः स्त्रियां ङीः स्यात् । दर्भमूली, शीर्षमूली । अनत्र इति किम् ? अमूला ॥ धवाद्योगादपालकान्तात् ॥ ५९ ॥ धवो भर्त्ता तद्वाचिनस्सम्बन्धात्स्त्रीवृत्तेः पालकान्तशब्दवर्जान् ङीः स्यात् । प्रष्ठी, गणकी । " २८८ " सा शङ्खपुष्पी, ओषधिविशेषः । सदादीति, सन्ति काण्डे प्रान्ते शतमेकं प्राक् च पुष्पं पुष्पाणि वा यस्या इति सर्वत्र विग्रहः, आदित्याप् ॥ सम् च भस्त्रा चाजिनञ्चैकश्च शणश्च पिण्डश्च ततो नञ्समासस्तस्मात्, फलात् । जातेरिति वर्तते । दासीव फलं यस्याः सा दासीफली, ओषधिविशेषः । सङ्गतं भनेवाजिनमेव, एकञ्च शणस्येव पिण्डाकाराणि वा फलानि यस्याः सा ॥ न नञनञ् तस्मात्, मूलात् । जातेरित्यनुवर्तते । दर्भस्येव शीर्षे वा मूलं यस्याः सा दर्भमूली, शीर्षमूली । न विद्यन्ते मूलानि यस्याः साडमूला, एता औषधयः । धवाद्योगात्पालकोऽन्ते यस्यासौ पालकान्तः, न पालकान्तस्तस्मात् । प्रष्ठस्य भार्या प्रष्ठी, प्रष्ठोऽप्रेसरः । योगादिति हेतौ पञ्चमी । धववाचिशब्दस्तदा स्त्रियां वर्तमानो भवति यदा तच्छब्दप्रवृत्तिनिमित्तं तत्रारोप्यते, तथा च प्रष्ठरूपधवप्रतियोगिकस्वत्वरूप सम्बन्धप्रयोज्यो यः प्रष्टत्वारोपस्तादृशारोप प्रकारीभूत प्रष्ठत्वपुरस्कारेण प्रष्ठस्त्रीबोधकात्प्रष्ठपदादनेन ङीर्भवति । न च गोपीत्यादौ ङीर्न स्यात्, तत्र गोपत्वलक्षण प्रवृत्तिनिमित्तस्य स्त्रियामपि स्वत एव सत्त्वेनाऽऽरोपासम्भवादिति वाच्यम्, अगोप्यामेव गोपस्त्रियामनेन ङीविधानात् । सोऽयमित्यभेदोपचारो •
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy